Enter your Email Address to subscribe to our newsletters

— राहुलगान्धी मल्लिकार्जुनखड्गे च अपि पचमढ्यां आगमिष्यतः।
भोपालम्, 02 नवम्बरमासः (हि.स.)। मध्यप्रदेशे कांग्रेस्दलेन दलस्य सर्वे ७१ जनपदाध्यक्षाः प्रशिक्षणं प्राप्स्यन्ति इति निश्चिन्तम्। तदर्थं पचमढ्याः एम्पीटी होटल् हाइलैण्ड् इत्यादिषु अन्येषु च आतिथ्यगृहेषु अद्य (रविवासरे) आरभ्य दशदिनात्मकः प्रशिक्षणशिविरः आयोज्यते।एषः शिविरः नवम्बरमासस्य 11 दिनाङ्कपर्यन्तं प्रवर्तिष्यते।अस्य शिविरस्य मध्ये कांग्रेससांसदः राहुलगान्धी च राष्ट्रीयाध्यक्षः मल्लिकार्जुनखड्गे च एकदिवसं सहभागिनौ भविष्यतः। तयोः आगमनं नवम्बरमासस्य अष्टतः दशमदिवसयोः मध्ये सम्भाव्यते।राहुलगान्धी बिहारराज्यस्य प्रथमचरणमतदानात् (6 नवम्बरदिनाङ्के) अनन्तरं पचमढ्याम् आगमिष्यन्ति।
कांग्रेसजनपदाध्यक्षः शिवकान्तपाण्डे उक्तवान् यत्—शिविरे राहुलगान्धेः खड्गेः च आगमनस्य कार्यक्रमः प्रकाशितः अस्ति,किन्तु निश्चिततिथिः शीघ्रं ज्ञापयिष्यते। राहुलगान्धी तस्मिन् समये केवलं जनपदाध्यक्षान् सम्बोधयिष्यन्ति न तु,तेभ्यः सह “वन्-टू-वन्” अर्थात् व्यक्तिगतसंवादम् अपि करिष्यन्ति।यत्र सः तेषां सामाजिकराजनीतिकपरिस्थितीनां, आव्हानानां चभविष्यनीतिपरियोजनायाश्च विषयेषु संवादं कर्तुं शक्नुयात् इति।
तेन उक्तं यत्—प्रशिक्षणशिविरस्य तत्क्षणानन्तरं षष्टिदिनात्मकः कार्यक्रमः प्रकाश्यते,यत्र सर्वासु ग्रामपञ्चायतीषु पञ्चायतकांग्रेस्समितिःसर्वेषु च खण्डेषु वार्डकांग्रेस्समितिः स्थाप्यते।एतदर्थं सर्वे नेतारः पदाधिकाऱिणश्च उत्तरदायित्वानि लप्स्यन्ते।
प्रदेशकांग्रेसकार्यालयस्य निवेदनेन उक्तं यत्—कांग्रेसस्य 71 जनपदाध्यक्षाः दशदिनानि यावत् पचमढ्यां निवसन्तः प्रशिक्षणं प्राप्स्यन्ति।एतस्मिन् अवसरे विविधान् विषयविशारदाःदैनिकजीवननियोजनं, जनसंपर्कः, मतदानकेन्द्रव्यवस्थापनम्,कार्यकर्तृव्यवस्थापनं, चुनौतयः, भविष्यनीतिः इत्यादीनि अध्यापयिष्यन्ति।
अस्मिन् शिविरे राष्ट्रीयप्रशिक्षणाध्यक्षः सचिन्रावः,सांसदः पूर्वप्रशासनिकाधिकारी च शशिकान्तसेन्थिल्,सुप्रियाश्रीनेत्, पवनखेड़ा, जयरामरमेश्, केसी वेणुगोपाल्,हरीशचौधरी, कमलनाथः, दिग्विजयसिंहः, अरुणयादवः,जीतुपटवारी इत्येते नेतारः जनपदाध्यक्षान् प्रशिक्षणं दास्यन्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA