Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, ९ दिसम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मीरजापुरजनपदे ड्रम्मण्डगञ्जक्षेत्रे पटेहराग्रामे मङ्गलवासरे अमरशहीदकेशरीसिंहस्य 54तमे शहादतदिवसे भावपूर्णा श्रद्धाञ्जलिसभा आयोजिताऽभूत्। कार्यक्रमे शहीदस्य पत्नी छोटीकुँवरसिंहा, पूर्वसैनिकः परशुरामसिंहः च, क्षेत्रीयजनानां बहुसंख्येन सह शहीदस्य प्रतिमायां माल्यार्पणं कृत्वा श्रद्धासुमनांसि अर्पितवन्तः।
आरक्षकाध्यक्षः ब्रह्मदीनपाण्डेयः स्वदलेन सह आगत्य प्रतिमायै पुष्पाणि अर्प्य सम्मानं दत्तवान्। स उवाच वीरः केशरीसिंहः राष्ट्रस्य रक्षणार्थं स्वप्राणान् सर्वोच्चं बलिदानं दत्तवान्। तस्येदम् अदम्यं शौर्यं मीरजापुरस्य सर्वदेशस्य च गौरवं वर्धयति। युवानां प्रति सः राष्ट्रभक्तेः त्यागस्य च शिक्षा गृह्णीयाताम् इति आवानम् अकरोत्।
पूर्वसैनिकः परशुरामसिंहः अपि अवदत् शहीदानां बलिदानस्मरणं राष्ट्रस्य कर्तव्यं। वीरकेशरीसिंहस्य महान् त्यागः सर्वयुवानां कृते प्रेरणाशक्तेः स्रोतः अस्ति। कार्यक्रमे शहीदकेशरीसिंह-उच्चविद्यालयस्य छात्राः देशभक्तिगीतैः, नृत्यैः, सांस्कृतिकप्रस्तुतिभिः च उपस्थितानां हृदयानि हृतवन्तः। ग्रामवासिभिः शहीदस्य बान्धवान् सम्मान्य तेषां त्यागस्य प्रति कृतज्ञता व्यक्ता।
अस्मिन् अवसरे शहीदस्य पुत्रवधू योग्यतासिंहा, अमनसिंहः, धीरजमिश्रः, हरिश्चन्द्रः सोनी, अरुणसिंहः, राममूर्तिः पाण्डेयः, अरुणमिश्रः, राकेशतिवारी, अधिवक्ता जे.पी. तिवारी, इन्द्रजीतसिंहः, लवकुशसिंहः इत्यादयः अनेकाः विशिष्टजनाः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता