Enter your Email Address to subscribe to our newsletters

कोलकाता, 2 दिसंबरमासः (हि.स.)।विशेषेण गहनतया च पुनरीक्षणाभियानस्य प्रसङ्गे निर्वाचन आयोगेन पश्चिमबङ्गराज्यस्य 2208 मतगणनास्थानानि (बूथाः) परिचितानि यत्र एकोऽपि मृत मतदाता न दृश्यते न च द्विगुण नाम न च स्थानान्तरित मतदातृनाम्नः लेखः अस्ति। एषः संख्यापरिणामः सोमवासरस्य सायंकालपर्यन्तं प्राप्तः।
मुख्यनिर्वाचनाधिकारिणः कार्यालयस्थः अधिकारी अवदत् यत् एतेषु बूथेषु सर्वाधिकस्य संख्या दक्षिण चत्वारिंशद् परगणे प्राप्ता या 760 अस्ति। द्वितीयस्थाने पुरुलिया यत्र 228 बूथाः विद्यन्ते। तृतीय च चतुर्थस्थाने अल्पसंख्यकबहुलयोः मुर्शिदाबादमालदा जिल्योर्ये संख्ये क्रमशः 226 तथा 216 स्तः।
अपरं सर्वत्र राज्ये 582 बूथेषु केवलम् एकस्मिन् प्रकारे दोषस्य आविर्भावः दृष्टः — सः मृत मतदातुः केसः वा द्विगुणनाम केसः वा स्थानान्तरितमतदाता केसः। एवं 420 बूथेषु द्वौ प्रकारौ दोषौ ज्ञातौ।
एतेषां तथ्यनां मध्ये भारतीयजनतापक्षेण अस्मिन्नेव विषयि गंभीरः संशयः व्यक्तः। ते वदन्ति यत् एवं विस्तीर्णमानेन शून्यदोषयुक्ताः बूथाः प्राप्तुम् असम्भाव्याः सन्ति।
कलकत्तानगरनिगमस्य पार्षदः सजल घोषः, यः भाजपा नेताऽपि अस्ति, अवदत् यत् एषः संख्यापरिणामः विश्वसनीयः न प्रतीतिः। एतेभ्यः बूथेभ्यः सङ्कलिताः पञ्जीकरणपत्राः शीघ्रं पुनरीक्षितव्याः।
उल्लेखनीयम् यत् विधानसभायां विपक्षनेता शुभेन्दु अधिकारी अपि मतदाता सूचौ 1.25 कोटी नाम्नां लेखनम् असन्दिग्धम् इति मन्यते स्म तथा तस्याः लेखायाः लेखापरीक्षणस्य याचनां कृतवान्।
हिन्दुस्थान समाचार