Enter your Email Address to subscribe to our newsletters

रायपुरम्, 2 दिसंबरमासः (हि.स.)।
शीतकालीनकाले रेलयानानां संमर्दं दृष्ट्वा दक्षिणपूर्वमध्यरेलयान्वयेन बिलासपुरयेलहंका बेंगलुरु बिलासपुर मार्गे पञ्चपञ्चवारं यावत् साप्ताहिकं शीतकालीनविशेषरेलयानं संचालितुं घोषणा कृता। यात्रिणां सुविधार्थं अस्मिन् विशेषरेलयाने आसन्दः उपलब्धः अस्ति। रेलप्रशासनस्य बिलासपुरात् प्राप्तसूचनानुसारं गाडीसंख्या 08261 बिलासपुरयेलहंका शीतकालीनविशेषरेलयानं अद्य मङ्गलवासरे द्वितीयदिनाङ्कात् त्रिंशद्दिसम्बरद्विसहस्रपञ्चविंशतितमदिनाङ्कपर्यन्तं प्रतिमङ्गलवासरे प्रेष्यते तथा प्रत्यागमे गाडीसंख्या 08262 येलहंकाबिलासपुर 3 तः 31 डिसम्बर 2025 पर्यन्तं प्रतिबुधवासरे चलिष्यति।
अस्य रेलयानस्य वाणिज्यिकनिवर्तनस्थानानि बिलासपुर भाटापारा रायपुर दुर्ग राजनादगावं डोंगरगढ तथा गोंदिया इति निश्चितानि। विंशतिखण्डयुक्तायां अस्याम् रेलयाने एसीद्वितीय एसीतृतीय एसीतृतीयइकोनोमी स्लीपर सामान्यखण्डौ एसएलआरडी तथा जनरेटरकार इति विभागाः सन्ति।
हिन्दुस्थान समाचार