गया जी विधानसभासनस्य 09 पर्यायेभ्यः प्रतिनिधित्वं कुर्वतो डॉ प्रेम कुमारस्य अद्याध्यक्षरुपेण भविष्यति अभिषेकः
पटना, 02 दिसंबरमासः (हि.स.)। बिहारविधानमण्डले शीतकालीनसत्रस्य द्वितीयदिने मंगलवासरे सभाध्यक्षस्य निर्वाचनं भविष्यति। प्रथमे दिने शपथग्रहणसमारोपस्य समाप्ते अनन्तरं राष्ट्रियजनतान्त्रिकगठबन्धनस्य उम्मीदवाररूपेण भारतीयजनतापक्षस्य वरिष्ठनेता डाक्टर प्
डॉ प्रेम कुमार की फोटो


पटना, 02 दिसंबरमासः (हि.स.)।

बिहारविधानमण्डले शीतकालीनसत्रस्य द्वितीयदिने मंगलवासरे सभाध्यक्षस्य निर्वाचनं भविष्यति। प्रथमे दिने शपथग्रहणसमारोपस्य समाप्ते अनन्तरं राष्ट्रियजनतान्त्रिकगठबन्धनस्य उम्मीदवाररूपेण भारतीयजनतापक्षस्य वरिष्ठनेता डाक्टर प्रेमकुमारः विधानसभाध्यक्षपदे औपचारिकं नामांकनं समर्पितवान्।

नूतनस्य सभाध्यक्षस्य निर्वाचनं अद्य भविष्यति। सत्रं पञ्चदिसम्बरपर्यन्तं प्रवर्तिष्यते तथा पञ्च बैठकाः आयोजिताः भविष्यन्ति।

विधानसभानिर्वाचनानां नूतनसरकारगठनस्य च अनन्तरं अष्टादशीतमस्य विधानसभायाः एषा प्रथमऔपचारिकसभा अस्ति। सत्रकाले विपक्षदलानि सरकारं प्रति प्रहारं कर्तुं सज्जानि सन्ति, यद्यपि सत्तापक्षं विपक्षस्य प्रश्नानां प्रत्युत्तरदानेन सदनं प्रति प्रवेक्ष्यति।

भारतीयजनतापक्षस्य वरिष्ठनेता तथा गया क्षेत्रात् अनवरतं नववारं निर्वाचितो विधायकरूपेण स्थितः डाक्टर प्रेमकुमारः बिहारविधानसभायाः अष्टादशः अध्यक्षः भविष्यति। सः सोमवासरे अध्यक्षपदाय नामांकनं समर्पितवान्। अस्मिन् पदे सः एकमेव उम्मीदवारः अस्ति, अतः तस्य निर्विरोधनिर्वाचनं निश्चितमिव दृश्यते। भारतीयजनतापक्षकोटातः विजयकुमारसिन्हा नन्दकिशोरयादव इत्येतयोः अनन्तरं एषः तृतीयः अध्यक्षः भविष्यति। पूर्वं जदयू दलस्य उदयनारायणचौधरी तथा विजयकुमारचौधरी अपि अस्मिन् पदे आसन्।

डाक्टर प्रेमकुमारः प्रथमवारं उन्नवत्युत्तरनवति संवत्सरे विधायकरूपेण अभ्युदितः तथा तस्मात् आरभ्य अद्यावत् सर्वेषु निर्वाचनसङ्ग्रामेषु विजयं प्राप्य नववारं विधानसभां प्राप्तवान्। सः 1995, 2000, 2005 (फरवरी), 2005 (अक्टोबर), 2010, 2015, 2020 तथा 2025 इत्येषु वर्षेषु अपि विजयी जातः। अत्यन्तपिछडवर्गस्य नेतृपदे सः दृढं प्रतिष्ठां धारयति।

मगधविश्वविद्यालयात् पीएचडी प्राप्तवान् डाक्टर कुमारः 2015–2017 पर्यन्तं विपक्षनेता अपि आसीत्। जयप्रकाशनारायणस्य आन्दोलनात् स्वराजनीतिकजीवनस्य आरम्भं कृतवान् एषः नेता अद्यतनपर्यन्तं दशकाधिकविभागानां मन्त्री भूत्वा सेवारतः आसीत्। 2005 तमे वर्षे प्रथमवारं नीतिशसरकारे मन्त्री अभवत्, 2010, 2017–2020 तथा 2020–2024 इत्येषु अवधिषु मन्त्रिपदे स्थित्वा पथनिर्माण, नगरविकासादीनि बहूनि महत्त्वपूर्ण विभागान्यपि संचालितवान्।

---------------

हिन्दुस्थान समाचार