Enter your Email Address to subscribe to our newsletters

उज्जैनम्, 2 दिसंबरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिनीनगरे मंगलवारे भारतीय-नारी-क्रीडासंघस्य विश्वकपविजेतादले स्थिताया: सुश्रीस्नेहाराणा इति क्रीडायुवत्या: प्रात:काले भस्मारत्यां ज्योतिर्लिङ्ग-भगवतः श्रीमहाकालेश्वरस्य दर्शनलाभ: कृत:। सा दलस्य कृते प्रार्थनां कृतवती। उक्तवती च— “एवं भारतस्य ललाटं सर्वदा उन्नतं भवतु।” दर्शनानन्तरं मन्दिर-व्यवस्थापन-समिते: पक्षेण उपप्रशासकेन एस.एन. सोनी तथा अभियन्त्रा शिवाकान्त-पाण्ड्येन स्नेहा-राणायै स्वागतं सम्मानं च विधीयते स्म।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani