Enter your Email Address to subscribe to our newsletters
भोपालम्, 27 फरवरीमासः (हि.स.)। मध्यप्रदेशमाध्यमिकशिक्षामण्लेन दशमकक्षायाः वार्षिकीपरीक्षा अद्य (गुरुवासरे) आरभते। एषा परीक्षा 21 मार्चपर्यन्तं आयोजयिष्यते। परीक्षा नियमितस्वाध्यायिनां परीक्षार्थिनां च प्रातः 9 वादने आरभ्य मध्याह्न 12 वादनपर्यन्तं भविष्यति।
जनसम्पर्काधिकारिणा उमेशतिवारिणा उक्तं यत् सर्वे परीक्षार्थिनः परीक्षा-केन्द्रे प्रातः 8 वादने तथा परीक्षा-कक्षे प्रातः 8.30 वादने उपस्थितिं कर्तव्यम्। परीक्षा-कक्षे प्रातः 8.45 वादनात् परं कस्यापि परीक्षार्थिनः प्रवेशः न भविष्यति। परीक्षार्थिनः परीक्षा-आरम्भात् 10 निमेषपूर्वं अर्थात् प्रातः 8.50 वादने उत्तरपुस्तिकां लप्स्यन्ते, तथा 5 निमेषपूर्वं अर्थात् प्रातः 8.55 वादने प्रश्नपत्रं प्रदास्यते। प्रत्येकस्य परीक्षार्थिनः उपस्थिति-पत्रकस्य छायाचित्रेण मिलनं भविष्यति। प्रवेशपत्रे अपि छायाचित्रं आवश्यकं अस्ति। परीक्षार्थिनः यथाशक्ति पेयजलस्य कूपी स्वयमेव आनयन्तु।
तेन उक्तं यत् दशमकक्षायाः नियमितस्वाध्यायिनां परीक्षार्थिनां च प्रथमः प्रश्नपत्रः गुरुवासरे 27 फरवरी-दिनाङ्के हिन्दी-विषयस्य भविष्यति। शुक्रवासरे 28 फरवरी-दिनाङ्के उर्दू, शनिवासरे 1 मार्च-दिनाङ्के नेशनलस्किल्सक्वालिफिकेशनफ्रेमवर्कस्य समस्तविषयानाम् तथा कृत्रिमबुद्धिमत्ता (आर्टिफिशियल इंटेलिजेंस) विषयस्य प्रश्नपत्रं भविष्यति। सोमवासरे 3 मार्चदिनाङ्के अंग्रेजीविषयस्य प्रश्नपत्रं भविष्यति। बुधवासरे 5 मार्च-दिनाङ्के मराठी, गुजराती, पंजाबी, सिन्धी विषयानां प्रश्नपत्रं, तथा मूकबधिर-दृष्टिहीनविद्यार्थिनां कृते चित्रकला, गायनवादन, तबला-पखावज, संगणक-विषयस्य प्रश्नपत्रं भविष्यति। गुरुवासरे 6 मार्च-दिनाङ्के संस्कृत स्वयं सोमवासरे 10 मार्च-दिनाङ्के गणितस्य, गुरुवासरे 13 मार्च-दिनाड़्के सामाजिकविज्ञानस्य शुक्रवासरे 21 मार्च-दिनाड़्के विज्ञानस्य प्रश्नपत्रस्य च परीक्षा आयोजिता भविष्यति।
हिन्दुस्थान समाचार / ANSHU GUPTA