जिला अधिकारी बागपते कांवड़ं नयत्सु शिव भक्तेषु अकरोत् पुष्प वर्षाम्
बागपतम्, 20 जुलाईमासः (हि.स.)।जिलाधिकारी अस्मितालाल तथा पुलिसअधीक्षकः सूरजकुमाररायः इत्येतौ रविवासरे प्रातःकाले हेलिकप्टरद्वारा आकाशमार्गे सर्वेक्षणं कृतवन्तौ। तौ सुरक्षा-व्यवस्थायाः निरीक्षणं कृतवन्तौ। गाजियाबादनगरस्य दुधेश्वरमन्दिरे मुख्यमन्त्रिणा
पुरामहादेव मंदिर पर पुष्प वर्षा


बागपतम्, 20 जुलाईमासः (हि.स.)।जिलाधिकारी अस्मितालाल तथा पुलिसअधीक्षकः सूरजकुमाररायः इत्येतौ रविवासरे प्रातःकाले हेलिकप्टरद्वारा आकाशमार्गे सर्वेक्षणं कृतवन्तौ। तौ सुरक्षा-व्यवस्थायाः निरीक्षणं कृतवन्तौ।

गाजियाबादनगरस्य दुधेश्वरमन्दिरे मुख्यमन्त्रिणा योगी आदित्यनाथेन पुष्पवर्षा सम्पादनस्य पूर्वसंध्यायां बागपतजनपदस्य परशुरामेश्वरपुरा-महादेवमन्दिरं प्रति आगच्छतां कावड्-यात्रिकाणां, शिवभक्तश्रद्धालूनां च उपरि बागपतजिलाधिकारी तथा पुलिसअधीक्षकः पुष्पवृष्टिं कृतवन्तौ।

उल्लेखनीयं यत् श्रीपरशुरामेश्वरमहादेवमन्दिरे श्रावणमासस्य महाशिवरात्र्याः पर्वणि प्रसिद्धं ऐतिहासिकं मेलनं २१ जुलै २०२५ तः २४ जुलै २०२५ पर्यन्तं आयोज्यते।

अत्र संख्यातः श्रद्धालवर्गः हरिद्वारादिभ्यः विभिन्नस्थलाभ्यः च पादयात्रया आगत्य पवित्रगंगाजलं वहन्तः शिवलिङ्गे जलाभिषेकं कुर्वन्ति।

पूरा-महादेव-मन्दिरस्य प्राचीनता, महत्त्वं च प्रतिष्टितम् अस्ति। श्रद्धालवर्गः स्वगन्तव्यप्रदेशान् प्रस्थानं बागपततः एव कुर्वन्ति।

जिलाधिकारी तथा पुलिसअधीक्षकौ जनपदस्य समस्त-कावड्-मार्गेषु शिवभक्तानां श्रद्धालूनां च उपरि पुष्पवर्षां कृत्वा तेषां स्वागतं सम्मानं च कृतवन्तौ।

---------------

हिन्दुस्थान समाचार