Enter your Email Address to subscribe to our newsletters
- प्रदेशे 23 जुलाईतः पुनः तीव्रतया वृष्टेः आरंभः।
भोपालम्, 20 जुलाईमासः (हि.स.)।मध्यप्रदेशे गतम् अद्यपर्यन्तं तीव्रवृष्टेः विश्रान्तिः प्राप्ता। आगामिषु त्रिषु दिवसेषु प्रदेशे कस्यापि स्थले महती वृष्टिः न भविष्यति इति भारतीयमौसमविभागेन निगदितम्। अधुना सिस्मट् इत्यस्य प्रभावस्य क्षीणत्वात् केवलं लघु-बिन्दुबिन्दुरूपेण वृष्टेः सम्भावना अस्ति। मौसमविभागस्य सूचना अनुसारं, अद्य रविवासरे अधिकतरजनपदेषु आकाशः निर्मलः भविष्यति।
तथापि, आगामिनि २३ जुलाय् दिनाङ्के पुनः प्रदेशे तीव्रवृष्टेः आरम्भः भविष्यति। एतस्मिन्हि वर्षाकाले मध्यप्रदेशे समग्रतः २०.५ अङ्गुलानि जलवृष्टिः सम्पन्ना। निवाड़ी, टीकमगढ़ इत्येते जनपदाः सन्ति यत्र सामान्यवृष्टेः लक्ष्यम् पूर्णं जातम्। अन्येषु बहुषु जनपदेषु अपि अष्ट्यधिकशतम् प्रतिशतपर्यन्तं जलवृष्टिः सम्पन्ना।
मौसमविशेषज्ञः श्री अरुणशर्मा इत्यनेन निगदितम् यत्, आगामिषु २४ घण्टासु कत्रचित् स्थले महती वृष्टिः न भविष्यति। २१-२२ जुलाय् दिनाङ्कयोः अपि समानः मौसमावस्था भविष्यति। किन्तु २३ जुलाय् दिनाङ्के पूर्वमध्यप्रदेशस्य कस्यचित् भागे तीव्रवृष्टेः आरम्भः भविष्यति।
यद्यपि एकः मानसूनट्रफ् तथा एकः डिप्रेशन् सक्रियौ स्तः, तथापि तयोः प्रभावः मध्यप्रदेशात् दूरे एव अस्ति। यदा पश्चिमदिके विक्षोभः (वेस्टर्न् डिस्टर्बन्स्) सक्रियः भविष्यति, तदा पुनः वृष्टिकालः आरभ्यते।
शनिवासरे मानसूनट्रफ् तथा डिप्रेशनस्य कारणेन प्रदेशे बहुषु स्थलेषु तीव्रवृष्टिः जातासीत्। किन्तु रविवासरे प्रायः सर्वेषु जनपदेषु आकाशः शान्तः अभवत्। केवलं श्योपुर् इत्यस्मिन् स्थले अल्पवृष्टिः प्राप्ता।
वृष्टेः विश्रान्तेः अनन्तरं खजुराहो नगरे दिनं ३५.६ डिग्रीसेल्सियस् तापमानम् अभवत्। सीधी ३४.६, सतना ३३.९, मंडला ३३.५, दतिया, रायसेन, नर्मदापुरम् एषु त्रिषु स्थलेषु ३३.४ डिग्रीसेल्सियस् इति तापमानम् अभवत्।
रात्रौ बालाघाट्, अनुप्पुर्, शहडोल्, राजगढः, छिंदवाडा, सिवनी, पांढुर्णा, डिण्डोरी, मंडला, उमरिया, सीधी, सिंगरौली, रीवा, मऊगंज, बैतूल्, मैहर्, जबलपुर, कटनी एषु स्थलेषु आकाशे विद्युत्स्फुरणं सह लघु-वृष्टिः अपि अभवत्।
हिन्दुस्थान समाचार