Enter your Email Address to subscribe to our newsletters
इन्दौरनगरम्, २० जुलाईमासः (हि.स.)। नगरीयविकास-आवासमन्त्री कैलाशविजयवर्गीयः अद्य (रविवारदिने) इन्दौरनगरस्य कोटिशः विकासकार्याणां भूमिपूजनं लोकार्पणं च करिष्यति। अस्मिन सन्दर्भे इन्दौरं स्वच्छतानगराणां शीर्षस्थं कृत्वा यथास्थानस्य स्वच्छतामित्राणां सम्मानसमारोहः अपि आयोज्यते।
जनसम्पर्कधिकारी महिपाल अजयेन उक्तं यत् मन्त्री विजयवर्गीयः स्व. गोपाल मालू उद्यान, शिक्षकनगर, इन्दौरमध्ये विधानसभा क्षेत्रं क्रमांक १, वार्ड संख्या ४ इत्यत्र षट्कोटिरूप्यकाधिकमूल्यस्य विकासकार्यस्य भूमिपूजनं लोकार्पणं च करिष्यति।
तथैव, २.५ कोटिरूप्यकाधिकमूल्येन झूले-चक्रि-ओपन-जिम-सामग्री अपि विधानसभा क्षेत्रस्य उद्यानानां कृते वितरणं करिष्यति। ते स्व. गोपाल मालू उद्यानस्य उद्घाटनं कुर्वन्तः पौधारोपणं अपि करिष्यन्ति।
हिन्दुस्थान समाचार