Enter your Email Address to subscribe to our newsletters

प्रयागराजनगरम्, २० फरवरीमास: (हि.स.)। इलाहाबादविश्वविद्यालयस्य विधि-संकायेन शुक्रवासरे एल-एल-बी (ऑनर्स) पाठ्यक्रमस्य विद्यार्थिभ्यः अन्तः-मूट्-न्यायालय-प्रतियोगिता आयोजिता।
इविवि-जनसम्पर्क-अधिकारी प्रो.जयाकपूर: असूचयत् यत् प्रतियोगितायै एकेन विभागेन सह पञ्च न्यायालय-कक्षाः व्यवस्थापिताः आसन्। अस्यां प्रतियोगितायां आहत्य ४८ छात्राः सहभागिन: अभवन्। कार्यक्रमस्य आयोजने मूट्-न्यायालय-समित्याः संयोजिका डॉ.स्मिता-श्रीवास्तव: तथा सदस्या डॉ.विजयलक्ष्मीसिंह:, डॉ.संध्या वर्मा, डॉ.मुक्तावर्मा, डॉ.नरेंद्रकुमार: इत्येषां महत्त्वपूर्णा भूमिका आसीत्।
निर्णायकत्वेन इलाहाबादविश्वविद्यालयस्य तथा तस्य सम्बद्ध-महाविद्यालयानां संकाय-सदस्याः—डॉ.रितु रघुवंशी, डॉ.गरिमासिंह:, डॉ.पद्मा अपराजिता परिजा, डॉ.प्रियाविजय:, डॉ.हरीशकुमार: तिवारी, डॉ.राहुल: श्रीवास्तव:, डॉ.कृतिका सिंह:, डॉ.सृष्टिसिंह:, डॉ.अनामिकासिंह: तथा आयुषनिगम— इत्यादय: नियुक्ताः आसन्। विधि-संकायाध्यक्षः प्रो.आदेशकुमार: तथा विधि-विभागाध्यक्षः प्रो.अंशुमान मिश्र: इत्युभौ निर्णायकौ सम्मानितवन्तौ।
अस्मिन् अवसरे विधि-विभागस्य संकाय-सदस्याः अपि उपस्थिताः आसन्। प्रतियोगितायाः संचालनं एल-एल-बी (ऑनर्स) चतुर्थ-सत्रस्य छात्रया आरुषिद्विवेदीना कृतम्। प्रतिभागिनां छात्राणां सूची निर्मास्यते, ये च अन्येषु विश्वविद्यालयेषु आयोजितासु मूट्-न्यायालय-प्रतियोगितासु विधि-विभागस्य प्रतिनिधित्वं करिष्यन्ति।
प्रो.डी.सी.लालः शारीरिक-शिक्षा-विभागाध्यक्षत्वे नियुक्तः इलाहाबादविश्वविद्यालये प्रो.डी.सी.लालः शारीरिक-शिक्षा-विभागस्य अध्यक्षत्वे नियुक्तः। सः सम्प्रति तस्मिन्नेव विभागे प्राध्यापकत्वेन कार्यरतः अस्ति। प्रो.लालः २७ फरवरीमासे प्रो.अर्चना चहलतः कार्यभारं ग्रहीष्यति। जनसम्पर्क-अधिकारी प्रो.जयाकपूर: अवदत् यत् कुलपतिः प्रो.संगीता श्रीवास्तव: इत्यस्य अनुमत्यनन्तरं कुलसचिवः प्रो.आशीषखरे नियुक्ति-पत्रं निर्गतवान्। प्रो.लालस्य कार्यकालः द्विवर्षीयः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता