गोरखा हिमालयन फेस्टिवल’ इत्यस्य शुभारम्भः, सांस्कृतिक-सन्ध्यायां कलाकारैः समां बद्धम्
देहरादूनम्, 20 फरवरीमासः (हि.स.) हिमालयी-संस्कृतेः परम्पराणां च संरक्षणस्य उद्देश्ने आयोजितस्य ‘गोरखा हिमालयन फेस्टिवल’ (गोरखा-हिमालय-उत्सवस्य) शुभारम्भः शुक्रवासरे ''साइक्लोथॉन'' (द्विचक्रिका) रॅल्या सह अभवत्। सायङ्कालीनसत्रे सांस्कृतिककार्यक्र
गोरखा फेस्टिवल  शुभारंभ कार्यक्रम में पूर्व मुख्यमंत्री हरीश रावत।


देहरादूनम्, 20 फरवरीमासः (हि.स.)

हिमालयी-संस्कृतेः परम्पराणां च संरक्षणस्य उद्देश्ने आयोजितस्य ‘गोरखा हिमालयन फेस्टिवल’ (गोरखा-हिमालय-उत्सवस्य) शुभारम्भः शुक्रवासरे 'साइक्लोथॉन' (द्विचक्रिका) रॅल्या सह अभवत्। सायङ्कालीनसत्रे सांस्कृतिककार्यक्रमैः सह मेलायाः प्रदर्शन्याः च विधिवत् उद्घाटनं कृतम्। उत्सवस्य प्रथमे दिने पर्यावरण-संरक्षणस्य सन्देशस्य सांस्कृतिक-प्रस्तुतीनां च अपूर्वः सङ्गमः दृष्टः।

​शहीद-दुर्गामल्ल-मेमोरियल-ट्रस्ट इत्यस्य पक्षतः गढ़ी-कैण्ट स्थित-महेन्द्र-क्रीडाङ्गणे आयोजितस्य अस्य उत्सवस्य आरम्भः प्रातः सप्तवादने द्विचक्रिका-रॅल्या अभवत्। अस्मिन् अवसरे सेवानिवृत्तः लेफ्टिनेण्ट-जनरल-रामसिंह-प्रधानः, गोरखाली-सुधार-सभायाः अध्यक्षः पदमसिंह-थापा, ट्रस्ट-अध्यक्षा कमला-थापा तथा ट्रस्ट-संरक्षिका गोदावरी-थापली च हरित-पताकां प्रदर्श्य रॅलीं प्रस्थापितवन्तः। प्रायः १५ किलोमीटर दीर्घा एषा रॅली गढ़ी-कैण्टतः आरभ्य बल्लूपुर-घण्टाघर-मार्गेण पुनः कार्यक्रमस्थले सम्पन्ना अभवत्। अतिथयः प्रतिभागिनः प्रोत्साहितवन्तः हिमालय-संरक्षणस्य सन्देशं दत्तवन्तः तथा च स्वस्थशरीरं सुखीजीवनस्य आधारः इति उक्तवन्तः। रॅल्यां शताधिकैः चक्रिकारोहिभिः (Cyclists) सहभागिता कृता।

​सायङ्काले आयोजिते कार्यक्रमे मुख्य-अतिथिरूपेण हरीश-रावतः सेवानिवृत्त-लेफ्टिनेण्ट-जनरल-रामसिंह-प्रधानेन, ट्रस्ट-संस्थापकेन आचार्य-पण्डित-सुशान्त-राजेन, ट्रस्ट-अध्यक्षया कमला-थापय, गोरखाली-सुधार-सभा-अध्यक्षेण पदमसिंह-थापय तथा संरक्षिकया गोदावरी-थापल्या च सह प्रदर्शन्याः मेलायाः च शुभारम्भं कृतवान्।

​सांस्कृतिक-सन्ध्यायां जम्मू-नगरस्य प्रसिद्धेन जिया-शर्मा-एम-जैक्सन-बैण्ड इत्यनेन ‘कुञ्जू चञ्चलो (ए ट्रू लव स्टोरी)’ तथा ‘आश्रूआ आ गोरिया’ इत्यादीनि गीतानि प्रस्तुतानि। सिलीगुड़ी-नगरस्य कलाकारिण्या सुरक्षा-सिन्चुरी महोदयया ‘भाखेमा बर पीपलू’, ‘चियाबारिमा’ तथा ‘रामभा हो’ इत्यादिभिः गीतैः दर्शकानां मनः मोहितम्। सिलीगुड़ी-नगरस्य गायकेन विक्रम-कालीकोटी महोदयेन स्वगीतमाध्यमेन 'इण्डियन-आइडल' ख्यातिप्राप्ताय प्रशान्त-तमङ्गाय भावपूर्णा श्रद्धाञ्जलिः अर्पिता।

​स्थानीय-कलाकारयोः दीप्ति-राणा-देविन-शाही महोदययोः प्रस्तुत्यः अपि आकर्षणस्य केन्द्रम् आसन्। द्वयोः कलाकारयोः जुगलबन्दी-कलायां दर्शकाः आनन्देन नर्तितवन्तः। एतेन सह एव विभिन्न-सांस्कृतिक-समूहैः कलाकारैः च रङ्गारङ्ग-प्रस्तुतयः दत्ताः।

​ट्रस्ट-सचिवया प्रभा-शाह महोदयया उक्तं यत् शनिवासरे असम-राज्यतः आगतायाः 'सुपर डांसर' विजित्याः नन्द्याः अध्यायश्री-उपाध्याय महोदयायाः नृत्यप्रस्तुतिः विशेष-आकर्षणं भविष्यति। कार्यक्रमस्य प्रथमे दिने महत्यां संख्यायां गण्यमान्याः जनाः, कलाकाराः दर्शकाः च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता