Enter your Email Address to subscribe to our newsletters
नवदेहली, 1 अक्टूबरमासः (हि.स.)। काङ्ग्रेसस्य महासचिवः जयराम रमेशः प्रधानमन्त्रिणा नरेन्द्रमोदिना गाजासम्बन्धिनि अमेरिकाध्यक्षेन ट्रंपेन प्रस्तुतायाः २० सूत्री योजनायाः समर्थनं कृतमिति निर्दिश्य अवदत् — अस्यां योजनायां गाजाजनानां भूमिका, फिलिस्तीनराज्यस्य स्थापना च यथा महत्त्वपूर्णाः विषयाः सन्ति, तेषामवमाननं जातम्।
सोशलमीडियामञ्चे एक्स इत्यस्मिन् रमेशः उक्तवान् यत् प्रधानमन्त्रिणा इजरायलस्य प्रधानमन्त्रिणा नेतन्याहुना सह ऐक्यम् अभिव्यक्तं कृतम्, किन्तु योजनायां गाजाजनानां सहभागिता, तेषां भविष्यं च विषये अनेके मूलभूताः प्रश्नाः अद्यापि अनुत्तरिताः वर्तन्ते। किं गाजायाः प्रशासनं प्रति स्थानिकजनानां काचित् भूमिका भविष्यति? किं च, फिलिस्तीनराज्यस्य स्थापनायां काचित् ठोसः पहलः क्रियते वा इति?
असौ अपि अवदत् यत् फिलिस्तीनराज्यम् अद्यतनपर्यन्तं १५७ राष्ट्रैः स्वीकृतं जातम्, भारतदेशेन अपि १९८८ तमे वर्षे तस्य समर्थनम् आरब्धम्, किन्तु अमेरिका-इजरायलयोः पक्षेण अद्यापि तस्य अवमाननमेव क्रियते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता