Enter your Email Address to subscribe to our newsletters
नवदेहली, 1 अक्तूबरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्र-मोदी- अध्यक्षतायां आर्थिक-कार्यक्षेषु मन्त्रिमण्डलीय-समित्याः निर्णये देशे ५७ नूतन-केंद्रीय-विद्यालयानां (के.वि.) उद्घाटनाय बुधवासरे अनुमतिः दत्ता। एतेषां विद्यालयानां निर्माणं नववर्षेषु ५८६२.५५ कोटि-रूप्यक-व्ययेन भविष्यति।
केंद्रीय-मन्त्री अश्वनी-वैष्णव इत्यनेन पत्रकारान् प्रति उक्तम् – सर्व-व्यये २५८५.५२ कोटि-रूप्यकाणि मूलधन-व्ययः, ३२७७.०३ कोटि-रूप्यकाणि परिचालन-व्ययः च अन्तर्भूताः। प्रथमवारम् एतेषां विद्यालयानां कृते राष्ट्रीय-शिक्षा-नीतिः (२०२०) अन्तर्गतं त्रैवार्षिकी- बालवाटिका-कक्षा (पूर्व-प्राथमिक-श्रेणी) संचालनाय अनुमतिः दत्ता।
एतेषु ५७ नूतन-केंद्रीय-विद्यालयेषु २० विद्यालयाः तेषु जनपदेषु स्थापनीयाः यत्र अद्यापि केंद्रीय-विद्यालयाः न सन्ति। अपि च, १४ विद्यालयाः आकांक्षी-जनपदेषु, ४ विद्यालयाः वामपन्थी-उग्रवाद-प्रभावित-जनपदेषु, ५ विद्यालयाः पूर्वोत्तर-प्रदेशेषु पर्वतीय-प्रदेशेषु च स्थापनीयाः।
एतेषु विद्यालयेषु प्रायेण १५२० छात्राणां शिक्षणाय क्षमता-युक्तं प्रत्येकं विद्यालयं भविष्यति। विद्यालय- संगठनस्य मानदण्डानुसारं संचालनाय नूतनानि पदानि अपि सृज्यन्ते। एतेन ८६,६४० छात्राणां लाभः भविष्यति, ४६१७ प्रत्यक्ष-स्थायी-रोजगाराः अपि सृज्यन्ते।
उल्लेखनीयं यत् केंद्रीय-विद्यालय-योजना नवम्बर् १९६२ तमे वर्षे केंद्र-सर्वकारेण सम्पूर्णदेशं समाना: शैक्षिक-सुविधाः दातुं आरब्धा। वर्तमाने देशे १२८८ केंद्रीय-विद्यालयाः कार्यरताः, यत्र त्रयः विद्यालयाः विदेशेषु अपि सन्ति। एतेषु विद्यालयेषु २०२५ तमे वर्षस्य जून् मासस्य ३० तमे दिने प्रायेण १३.६२ लक्ष-छात्राः अध्ययन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता