Enter your Email Address to subscribe to our newsletters
भोपालम्, 01, अक्तुबरमासः । मध्यप्रदेशस्य मुख्यमंत्री
डॉ. मोहनयादवः अद्य (बुधवासरे) प्रातः १०.३० वादने राजधानीभोपालस्थिते वनविहार-राष्ट्रीयोद्यानस्य विहारवीथिकायां राज्यस्तरीयवन्यजीवसप्ताहस्य शुभारम्भं करिष्यति। अस्मिन् अवसरे मुख्यमंत्री डॉ. यादवः सतपुडा-व्याघ्रआरक्षस्य पर्यटकयानानाम् उद्घाटनं करिष्यति, “भारतस्य वन्यजीवाः—तेषां निवासः परस्परसञ्चारश्च” इत्यस्मिन् विषयकस्य छायाचित्रप्रदर्शिन्याः उद्घाटनं च भविष्यति, वन्यजीवसंरक्षणपुरस्कारान् वितरिष्यति च।
जनसम्पर्काधिकाऱी के.के. जोशी इत्यनेन उक्तं यत्—अस्मिन् कार्यक्रमे वनपर्यावरणराज्यमन्त्री दिलीपसिंह-अहिरवारः, अपरमुख्यसचिवः (वन) अशोकबर्णवालः, प्रधानमुख्यवनसंरक्षकः वनबलाध्यक्षश्च व्ही.एन. अम्बाडे इत्येते उपस्थिताः भविष्यन्ति।
वन्यजीवसप्ताहस्य कार्यक्रमाः
गुरुवासरे (२ अक्तुबरमासः) पक्षीपर्यवेक्षणम्, जनजागरूकतायै सृजनात्मककार्यशाला, महाविद्यालयीयविद्यार्थिनां कृते वादविवादप्रतियोगिता, विद्यालयीयविद्यार्थिनां कृते तात्कालिककथाप्रतियोगिता च भविष्यति।
शुक्रवासरे (३ अक्तुबरमासे) शलभपर्यवेक्षणम्, निधिखोजनम् , मेहन्दीचित्रणम्, हस्तपङ्कचित्रणम् च।
शनिवासरे (४ अक्तुबरमासे) विशेषवंचितवर्गस्य दिव्याङ्गबालकानां कृते पक्षीपर्यवेक्षणम्, छायाचित्रग्रहणम्, रंगोलीचित्रणम्, विद्यालय-महाविद्यालयीय-
शिष्यशिष्याणां कृते युवा-संसद् च।
रविवासरे (५ अक्तुबरमासे) वन्यजीवाय धावनम् , शिक्षकवादविवादप्रतियोगिता च।
सोमवासरे (६ अक्तुबरमासे) सर्वेषां कृते पक्षीपर्यवेक्षणम्, उद्धारकार्यशाला , वन्यप्राणीसंरक्षणे उपकरणानाम् उपयोगविषये कार्यशाला, वन्यजीव-प्रकृतिप्रदर्शनम् , वादविवादप्रतियोगिता, परिभ्रमणप्रश्नोत्तरप्रदर्शनम् च।
मङ्गलवासरे (७ अक्तुबरमासे) बालकपदभ्रमणम् , मुखचित्रणप्रतियोगिता , पुरस्कारवितरणं च, समापनसमारोह: भविष्यति।
---
हिन्दुस्थान समाचार / अंशु गुप्ता