Enter your Email Address to subscribe to our newsletters
०२ अक्टूबरः ऐतिहासिकदिवसः। अस्मिन्नेव दिने राष्ट्रपिता महात्मागान्धी, भारतस्य भूतपूर्वप्रधानमन्त्री लालबहादुरशास्त्री च जातौ। गान्धिमहात्मा सत्यं अहिंसां च जीवनस्य आधारं कृत्वा भारतस्य स्वतन्त्रतासंग्रामं जन-आन्दोलनरूपेण परिवर्तितवन्तः। तस्य दर्शनं अद्यापि लोके शान्तेः न्यायस्य च मार्गं प्रदर्शयति।
लालबहादुरशास्त्री स्वस्य सरलता, सत्यनिष्ठा, दृढनेतृत्वेन च विख्यात:। सन् १९६५ तमे भारत-पाकयुद्धकाले तेन प्रदत्तः नादः “जय जवान्, जय किसान” इत्येषः अद्यापि राष्ट्रस्य ऐक्यस्य आत्मनिर्भरत्वस्य च चिह्नं भवति।
भारते अयं दिवसः गान्धीजयंती इत्याख्येन राष्ट्रीयपर्वरूपेण आचर्यते। संयुक्तराष्ट्रसंघेन च अयं अन्तर्राष्ट्रीय-अहिंसादिवसः इति मान्यतां प्राप्तः। अयं दिवसः अस्मान् स्मारयति यत्—शान्तिः, सरलता, सहयोगः च एव स्थायिविकासस्य, उत्तमसमाजस्य च आधारः इति।
महत्त्वपूर्णघटनाचक्रः।
१४९२ – ब्रिटेनराजा हेनरीसप्तमः फ्रांसं प्रति आक्रमणं कृतवान्।
१९२४ – राष्ट्रसंघं शक्तिशालीकर्तुं प्रस्तुतः जेनेवाप्रस्तावः महासभया अनुमतः, किन्तु न प्रमणीकृतः।
१९५१ – श्यामाप्रसादमुख्यर्जिना भारतीयजनसङ्घस्य स्थापना कृता।
१९५२ – सामुदायिकविकासकार्यक्रमस्य शुभारम्भः।
१९६१ – बम्बईनगरे (अधुना मुम्बई) भारतीयनौवहननिगमस्य गठनम्।
१९७१ – राष्ट्रपति: वी.वी. गिरिणा गान्धीसदनं (बिड़ला-भवनम्) राष्ट्राय समर्पितम्। यत्र गान्धीमहात्मनः हत्या कृता आसीत्।
१९८२ – तेहराननगरे बमविस्फोटेन ६० जनाः मृताः, ७०० घायलाः।
१९८५ – दहेजनिषेधाज्ञा-संशोधन-अधिनियमः प्रवृत्तः।
१९८८ – कोरियायां सिओल्-नगरे २४-तमाः ओलम्पिक-क्रीडाः सम्पन्नाः।
१९८८ – तमिळनाडुराज्ये मण्डपम्-पम्बनयोः मध्ये समुद्रे दीर्घतमः सेतुः उद्घाटितः।
२००० – रूसराष्ट्रपतिः ब्लादिमीरपुतिनः चतुर्दिवसीयभारतयात्रायां देहलीनगरे आगतः।
२००१ – नाटो (१९ देशानां सङ्घटनम्) अफ़ग़ानस्थानं प्रति आक्रमणाय अनुमतिं दत्तवान्।
२००३ – हंगरीराष्ट्रपतिः पीटरमैडगेसे भारतयात्रां कृतवान्।
२००४ संयुक्तराष्ट्रसुरक्षासमित्या काँगो-देशे ५९०० सैनिकान् प्रेषयितुं प्रस्तावः अनुमतः।
२००६ – दक्षिण-अफ्रिकादेशः भारतं प्रति परमाणु-ईधन-आपूर्तौ समर्थनं दत्तवान्।
२००७ – उत्तर-दक्षिणकोरिययोः मध्ये द्वितीया शिखरसम्मेलनं सम्पन्नम्।
२०१२ – नाइजीरियायां शस्त्रधारिभिः २० छात्राः हताः।
जन्मानि
१८६९ – महात्मागान्धी – भारतस्य राष्ट्रपिता।
१८९८ – प्रजापतिमिश्रः – विख्यातः गाँधीवादी-कार्यकर्ता, स्वतन्त्रतासेनानी च।
१९०० – लीलानाग – बंगालस्य विख्याता पत्रकर्तृ, महिला-क्रान्तिकारिणी च।
१९०१ – गोकुललालअसावा – स्वतन्त्रतासंग्रामस्य क्रान्तिकारी।
१९०४ – लालबहादुरशास्त्री – भारतस्य द्वितीयप्रधानमन्त्री।
१९२४ – तपनसिन्हा – विख्यातः चलचित्रनिर्देशकः।
१९३३ – शङ्करशेषः – हिन्दीभाषायाः नाटककारः, चलचित्र-कथालेखकः च।
१९४२ – आशापारेख् – प्रसिद्धा चलचित्राभिनेत्री।
१९६७ – अर्देम् पटापौटियनः – प्रसिद्धः आणविकजीववैज्ञानिकः, तन्त्रिकवैज्ञानिकः च।
१९७४ – प्रीतमसिवाच – भारतीयमहिलाहॉकीदले पूर्वकप्त्री।
१९७९ – हंगपनदादाः – अशोकचक्र-पुरस्कृतः भारतीयसैनिकः।
१९८५ – भव्या लाल् – नासा-संस्थायाम् भारतीयमूलकी वैज्ञानिकः।
१९९७ – लवलिना बोरगोहेनः – भारतीयं मुष्टियुद्धक्रीडकः।
निधनम्।
१९०६ – राजा रविवर्मा – विख्यातः चित्रकारः।
१९६४ – राजकुमारी अमृतकौरः – प्रसिद्धा गांधीवादी, स्वतन्त्रतासेनानी, सामाजिकसेविका च।
१९७५ – के. कामराजः – भारतरत्न-पुरस्कृतः स्वतन्त्रतासेनानी, राजनेता, तमिळनाडुमुख्यमंत्री च।
१९८२ – सी. डी. देशमुखः – ब्रितिशशासनकाले आई.सी.एस् अधिकारी, स्वतन्त्रभारतस्य तृतीयवित्तमन्त्री च।
महत्त्वपूर्णदिवसाः।
अन्तर्राष्ट्रीय-अहिंसादिवसः।
वन्यजीवसप्ताहः (०२ अक्तुबरात् ०८ अक्तुबरपर्यन्तम्)।
---
हिन्दुस्थान समाचार / अंशु गुप्ता