Enter your Email Address to subscribe to our newsletters
कन्या पूजने अनुष्ठाने स्वहस्ताभ्यां भोजनं पर्यवेशयत् मुख्यमंत्री , दक्षिणाम् उपहारं दत्वा कन्याभ्यो लब्धः आशीर्वादः
गोरखपुर, 1 अक्टूबरमासः (हि.स.)।मातृशक्तेः प्रति अगाधा श्रद्धा सम्मानश्च गोरक्षपीठस्य परम्परा एव।
मुख्यमंत्रीरूपेण दायित्वग्रहणानन्तरं गोरक्षपीठाधीश्वरः योगी आदित्यनाथः नारीरक्षणं, स्वावलम्बनं, सम्मानं च आश्रित्य अनेकेषां योजनानां माध्यमेन अस्याः परम्परायाः व्यवहारिकं विस्तारं कृतवान्।
मातृशक्तेः प्रति आदरभावं सुदृढीकृत्य बुधवासरे शारदीयनवरात्रस्य महानवमी-तिथौ गोरक्षपीठपरम्परानुसारं कन्यापूजनम् अकरोत्।
गोरखनाथमन्दिरे सम्पन्ने कन्यापूजन-कार्यक्रमे गोरक्षपीठाधीशेन नवदुर्गास्वरूपाः कुमारिकाः पादप्रक्षालनपूर्वकं पूजिताः। तासां चरणौ पखार्य, ताः सप्रकारं पूज्य, चूनरीं प्रावार्य, आरत्या उत्थाप्य, श्रद्धया भोज्यं दत्तम्। दक्षिणां दत्त्वा, उपहारैः समर्प्य, आशीर्वादः प्राप्तः।
मुख्यमन्त्रिणा परम्परानिर्वहणाय बटुकपूजनम् अपि कृतम्। बुधवासरे सः मन्दिरस्य अन्नक्षेत्रे प्रथमतले स्थिते भोजनकक्षे पीतलपराते जलस्थापनेन नवकन्यायाः चरणौ क्रमशः प्रक्षालितवान्।
दुर्गासप्तशतीमन्त्रैः सह तासां ललाटे रोली, चन्दनम्, दधि, अक्षतान् इत्यादीनां तिलकं कृतम्। पुष्पैः दूर्वया च अभिषेकः कृतः। मालां धारयित्वा, चूनरीं प्रावरणीकृत्य, उपहारं दक्षिणां च दत्त्वा तासां आशीर्वादः गृहीतः।
अस्मिन्नेव सत्रे षण्मासिका बालिका अपि पादप्रक्षालन-पूजनाभ्यां सत्कारिता, आशीर्वादश्च गृहीतः। हनुमद्वेषं धारयन्तम् एकं बालकम् अपि तिलकं कृत्वा, मालां धारयित्वा, अंगवस्त्रं च प्रावारयत्।
पूजनानन्तरं कन्याभ्यः बटुकभ्यश्च मन्दिररसोय्याम् पक्वं ताजं भोजनं मुख्यमन्त्रिणा योगिना स्वहस्तेन एव परोशितम्। केवलं नवकन्याः एव न, किन्तु अनेका आगता बालिकाः बटुकाश्च अपि पूजिताः, आरत्या उत्थापिताः। सर्वेभ्यः श्रद्धया भोजनं दत्त्वा, उपहारः दक्षिणा च प्रदत्ता।
मुख्यमन्त्रिणः स्नेहं सत्कारं च प्राप्तुं बालिकानां बटुकानां च आतुरता दृष्ट्वा रोमाञ्चकारिणी बभूव। सत्कारभावेन मुख्यमंत्री क्रमशः नवकन्याबटुकभैरवानां पादौ प्रक्षाल्य पूजां च कृतवान्। दक्षिणा प्राप्य बालिकाः हर्षपूर्णाः अभवन्।
भोजनं परोसन् मुख्यमंत्री बालैः बालिकाभिश्च निरन्तरं संवादं कुर्वन् आस, तथा च सावधानः बभूव यत् कस्यापि थाल्यां प्रसादस्य न्यूनता न स्यात्। अनेन सम्बन्धिनः मन्दिरव्यवस्थायाः जनान् निरन्तरं निर्दिशत्।
कन्यापूजनसमये गोरखनाथमन्दिरस्य प्रधानपुजारी योगी कमलनाथः, काशीतः आगतः स्वामी सन्तोषाचार्यः सतुआबाबा इत्यादयः सन्निहिताः आसन्।
मुख्यमन्त्रिणा योगिना कन्यापूजनस्य पूर्वं प्रातःकालीनपूजनसत्रे मन्दिरस्य शक्तिपीठे माँ सिद्धिदात्र्याः विधिविधानसमन्वितं आराधनं अपि कृतम्।
हिन्दुस्थान समाचार