Enter your Email Address to subscribe to our newsletters
गौतमबुद्धनगरम्, 01 अक्टूबरमासः (हि.स.)।दशहरा-दुर्गापूजायाः अवसरं प्रति सुरक्षाव्यवस्थां दृष्ट्वा गौतमबुद्धनगर-पुलिसदलेन गभीररक्षा-व्यवस्था कृता अस्ति।
अपर-पुलिस-उपायुक्तः राजीव-नारायण-मिश्रः अस्माकं संवादिनं प्रति अद्य मध्याह्ने विशेष-संवादे अवदत् यत् – दुर्गापूजा-दशहरा-महोत्सवयोः अवसरयोः गौतमबुद्धनगरस्य विभिन्नेषु स्थलेषु रावणस्य पुतल-दहनं भवति।
सः अवदत् – कस्यचित् अनहोनी-घटनायाः निवारणाय सर्वत्र पुलिस-व्यवस्था सुनिश्चितम्।
पेट्रोलिङ्-पक्षो व्यवस्थितः। सादी-वस्त्रेषु अपि पुलिस-जनाः तत्र तत्र नियुक्ताः।
प्रत्येकक्षणे पुलिसदलस्य दृष्टिः अवस्थिताऽस्ति। कतिपयेषु स्थलेषु ड्रोन-यन्त्रेण अपि निरीक्षणं क्रियते।
रावण-दहन-समये कतिपयेषु स्थलेषु अतीव संमर्द-समागमः स्यात् इति कारणेन मार्ग-परिवर्तनं कृतम्।
सः अवदत् – द्विसहस्रादधिकानि द्विशता च पुलिस-कर्मिणः सुरक्षा-व्यवस्थायां नियुक्ताः।
पुलिस-वरिष्ठ-अधिकाऱिणः अपि प्रतिक्षणं निरीक्षणं करिष्यन्ति।
सः अवदत् – द्विशताधिकेषु स्थलेषु दुर्गा-पूजा आयोज्यते। तद् दृष्ट्वा अपि सुरक्षा-व्यवस्था कृताऽस्ति।
सः अवदत् – डायल-११२ इति पुलिस-सेवा पूजापण्डाल-रामलीला-स्थलयोः समीपे नियुक्ताऽस्ति।
पुलिस-कमान्ड-नियन्त्रण-कक्षात् अपि प्रतिक्षणं निरीक्षणं क्रियते।
सीसीटीवी-चित्रग्राहकेण अपि निरीक्षणं सम्पद्यते।
सः जनान् प्रति अपि आवेदयत् – सर्वे दुर्गा-पूजा-दशहरा-महोत्सवौ हर्ष-उल्लासाभ्यां अनुष्ठेयौ, परस्पर-सुरक्षा-समादरयोः अपि ध्यानं क्रियताम्।
उत्पातकारिणः प्रति पुलिस-कठोर-कार्यवाही कर्तुं
सज्जा अस्ति।
हिन्दुस्थान समाचार