मध्यप्रदेशे अन्ताराष्ट्रियवृद्धजनदिवसे अद्य वृद्धेभ्यः समर्पितानि भविष्यन्ति नानाप्रकारकार्यक्रमाणि
शतवर्षपर्यन्तं वा तदधिकं वयः प्राप्तानां वृद्धानां गृहानुगत्य सम्मानं करिष्यते। इन्दौरम् 01 अक्टूबरमासः (हि.स.)। प्रतिवर्षवदद्य बुधवासरे (एक अक्टुबर दिनाङ्के)अंतर्राष्ट्रीय वृद्धजनदिवसः आचर्यते। अस्मिन् अवसरे मध्यप्रदेशस्य सर्वेषु जनपदेषु वृद्धजनसम्
वृद्धजन (प्रतीकात्मक तस्वीर)


शतवर्षपर्यन्तं वा तदधिकं वयः प्राप्तानां वृद्धानां गृहानुगत्य सम्मानं करिष्यते।

इन्दौरम् 01 अक्टूबरमासः (हि.स.)। प्रतिवर्षवदद्य बुधवासरे (एक अक्टुबर दिनाङ्के)अंतर्राष्ट्रीय वृद्धजनदिवसः आचर्यते। अस्मिन् अवसरे मध्यप्रदेशस्य सर्वेषु जनपदेषु वृद्धजनसम्मानसेवायै समर्पितानि नानाप्रकारकार्यक्रमाण्यायोज्यन्ते। अस्मिन् समये शतवर्षं प्राप्तानां वृद्धानां गृहानुगत्य सम्मानं करिष्यते।

इन्दौरे जनपदस्तरीयकार्यक्रमः “आस्था वृद्धजनाश्रमः कल्याणमित्रसमितिः” परदेशीपुरे आयोज्यते, यस्मिन् अन्तःवासिनां सम्मानः, वृद्धजनसेवायां समर्पितजनानां च सम्मानं करिष्यते। अन्तर्गतं क्रीडा केरम्, लूडो, शतरञ्ज, गीतसंगीतस्पर्धाः, प्रशंसापत्रवितरणं च भविष्यति।

इन्दौरजनपदे शतवर्षं वा तदधिकं वयः प्राप्तानां वृद्धानां शतायुसम्मानः शालया, श्रीफलेन, पुष्पमालया च सह तेषां निवासस्थले गत्वा करिष्यते। अस्य कृते ग्राम्यप्रदेशे सम्बन्धिनः एस.डी.एम्, नगरीयप्रदेशे नगरनिगमइन्दौर इत्येतयोः दायित्वं दत्तम्। एवं वृद्धाश्रमे निवसतां वृद्धजनानां सम्मानः संस्थास्तरे एव भविष्यति।

मुख्यचिकित्सा-स्वास्थ्याधिकारी, राष्ट्रियस्वास्थ्ययोजना तथा जनपदचिकित्सालयानि सामुदायिकस्वास्थ्यकेन्द्राणि च स्वास्थ्यपरीक्षणं, निःशुल्कऔषधवितरणं च भविष्यति।

Generation gap इति निवारयितुं महाविद्यालय/विद्यालयीयविद्यार्थिभिः युवकेभ्यश्च सह विविधानि कार्यक्रमाणि उच्चशिक्षा/शिक्षाविभागेन आयोज्यन्ते।

हिन्दुस्थान समाचार / अंशु गुप्ता