महानवम्यां शुभकामनाभिस्सह मुख्यमंत्री ममता बनर्जी प्रसारितवती स्वरचितं देवी आराधनायाः गीतम्
कोलकाता, 01 अक्टूबरमासः (हि. स.)।पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी महोदया महानवमी-उत्सवस्य अवसर एव स्वशुभाशंसासहितं नूतनं गीतं प्रकाशयामास। विशेषता च एषा यत् तस्याः गीतस्य पद्यानि धुनिश्च स्वयमेव तया निर्मिते। गीतं प्रसिद्धगायिका इमनचक्रवर्ती स्
मुख्यमंत्री ममता बनर्जी


कोलकाता, 01 अक्टूबरमासः (हि. स.)।पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी महोदया महानवमी-उत्सवस्य अवसर एव स्वशुभाशंसासहितं नूतनं गीतं प्रकाशयामास। विशेषता च एषा यत् तस्याः गीतस्य पद्यानि धुनिश्च स्वयमेव तया निर्मिते। गीतं प्रसिद्धगायिका इमनचक्रवर्ती स्वरितवती।

ममता बनर्जी गुरुवासरे प्रातःकाले सामाजिकमाध्यमे “एक्स्” इत्यत्र लिखित्वा अवदत्— “यदि स्यात् लघु उद्यानकं किञ्चित्, तर्हि अहं प्रतिदिनं कुसुमकलिका रूपेण प्रस्फुरेयं” इति।

एतेन सह सा सर्वेभ्यः महानवमी-शुभकामनाः दत्त्वा स्वं नूतनं गीतं प्रकाशितवती। ममता बनर्जी पूर्वं अपि काव्यलेखनगीत-रचनाद्वारा स्वस्य सृजनात्मकं रूपं प्रदर्शयामास। दुर्गापूजायाः आरम्भे षष्ठ्यां दिने अपि सा द्वौ भिन्नौ गीतौ प्रकाशितवती। अद्य तु अस्मिन् पूजाकाले एषः तृतीयः गीतः यः तया सामाजिकमाध्यमे समर्पितः।

हिन्दुस्थान समाचार