Enter your Email Address to subscribe to our newsletters
हरिद्वारम्, 01 अक्टुबरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य स्थापने शतवर्षपरिपूर्तेः ऐतिहासिकसन्धौ सनातनधर्मपरम्परायाः संवाहकः जूनापीठाधीश्वरः आचार्यमहामण्डलेश्वरः स्वामी अवधेशानन्दगिरिः स्वयंसेवकेभ्यः शुभकामनाः प्रेषितवान्।
स्वामिगिरिः राष्ट्रीयस्वयंसेवकसंघस्य शतवर्षे स्वस्य मंगलकामनासन्देशे अवदत्— “भारतभूमेः इतिहासः केवलं तिथिनां घटनानां च क्रमः न, अपि तु सनातनसंस्कृतेः अमरस्पन्दनानां प्रवाह एव। अस्मिन् प्रवाहे राष्ट्रियस्वयंसेवकसंघस्य उदयः सा दिव्यधारा एव प्रतीकः, या गतशतवर्षेषु भारतस्य आत्मानं जागरयामास, समाजं संस्कारितवती, राष्ट्रचेतनां च एकात्मतायाः दिशि अग्रे नीतवती।”
जूनापीठाधीश्वरः अवदत्— “एषः शतवर्षः केवलं सङ्घटनस्य यात्रैव न, अपि तु राष्ट्रधर्मणः अखण्डगाथैव। एषा यात्रा दिव्यसंस्काराणाम् अविच्छिन्ना अनुपमा उदाता च अलौकिका सांस्कृतिक–आध्यात्मिकी च अखण्डधारा, या व्यक्तिनिर्माणं राष्ट्रनिर्माणस्य मूलमन्त्रं कृतवती। सङ्घटनस्य अजेयशक्तिः, या विविधताः भिन्नताः च एकात्मतायां परिवर्त्य शक्तसमर्थं भारतस्वप्नं साकारितवती। कल्याणकारीसेवायाः सङ्कल्पः, यस्य बलात् विपत्तौ, आपदां, महामारीनाम् अपि कालेषु करुणया सर्वतोभावेन च समर्पणेन समाजे सर्वस्वं न्योच्छावरितम्।”
स्वामी अवधेशानन्दगिरिः उक्तवान्— “संघस्य स्थापनस्य समये भारतः दिग्भ्रान्तः परतन्त्रतायाः अन्धकारे निमग्नः च आसीत्। तस्मिन् समये परमपूज्यः डॉ. हेडगेवारः दर्शितवान् यत् यदि प्रतिहृदि राष्ट्रभक्तेः ज्योतिः प्रज्वलति, तर्हि स्वराज्यस्य सूर्यः उदयः निश्चयेन भवति। सा एव ज्योति अद्य अपि शाखासु, स्वयंसेवकानां जीवनसु, राष्ट्रचेतनायां च प्रकाशते। भौतिकतायाः अन्धीदौरे समये संघस्य ‘एकात्ममानवदर्शनम्’ अखिलविश्वस्य पथप्रदर्शकं भवति।”
अवदत् च— “वेदस्य अमरमन्त्रः— ‘संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्’ संघस्य प्रत्यक्षसाधनायाः स्वरूपम्। एषः शतवर्षमहोत्सवः पुनः अस्मान् स्मारयति यत् यदा वयं सर्वे सह गच्छेम, सह चिन्तयेम, सह सङ्कल्पं गृह्णीम, तदा भारतभूमेः स्वर्णिमं भविष्यं निश्चितं साकारं भविष्यति।”
हिन्दुस्थान समाचार / अंशु गुप्ता