Enter your Email Address to subscribe to our newsletters
नवदेहली, 01 अक्टूबरमासः (हि.स.)।जवाहरलालनेहरूक्रीडाङ्गणे मङ्गलवासरः भारतीयभालाक्षेपकक्रीडकानां नाम्ना जातः, यदा इण्डियनॉयल नवदेहली 2025 विश्वपैरा-क्रीडाचैंपियनशिप इत्यत्र भारतस्य क्रीडकाः अद्भुतं प्रदर्शनं कृतवन्तः।
प्रथमं सन्दीप- संजयसार्गरः सन्दीपचौधरी च एफ–44 वर्गे क्रमशः सुवर्णं रजतं च पदकं प्राप्य राष्ट्रस्य मानम् अर्धयताम्। ततः परं सुमितः एफ–64 वर्गे चैंपियनशिप इत्यस्य अभिलेखं स्थाप्य सुवर्णं पदकं विजित्य इतिहासं लिखितवान्। उल्लेखनीयम् यत् सोमवासरे अपि ऋङ्कुः सुन्दर सिंहगुर्जरश्च एफ–46 वर्गे सुवर्णं रजतं च पदकं स्वनाम्नि कृतवन्तौ।
एवमेव यदा एफ–64 स्पर्धा प्रवर्तमाना आसीत्, तदा टोक्यो ओलिम्पिक्–सुवर्णपदकविजेता नीरजचोपड़ा क्रीडाङ्गणं प्राप्तवान्। एषु समाचारेषु प्रसारितेषु माध्यमेषु दर्शकेषु च उत्साहः प्रवृत्ता। उपस्थितः प्रत्येकः जनः नीरजं दृष्ट्वा रोमाञ्चितः अभवत्, वातावरणं च ऊर्जया पूरितं जातम्।
नीरजः भारतस्य प्रदर्शनं प्रति हर्षं प्रकट्य विशेषं आह्वानम् अकरोत्— “पैरा–क्रीडकानां जीवनं यथैव कठिनं तथापि ते अत्र आगत्य प्रतिस्पर्धां कुर्वन्ति। एतत् वस्तुतः अद्भुतम्। अधिकाः जनाः आगत्य एषां क्रीडकानां साहसं संवर्धयितुं यत्नं कुर्वन्तु।”
अस्मिन् अवसरे उदिततारकः सचिन यादवः अपि प्रेक्षागारे उपविष्टः सुमितस्य क्रीडां दृष्टुं प्राप्तः। नीरजं यदा सचिनस्य विषये पृष्टवन्तः, तदा 27 वर्षीयः एषः क्रीडकः उक्तवान्— “मम किमपि उपदेशं तस्मै दातुं नास्ति। सः पूर्वमेव उत्तमं कार्यं करोति, तथा च जानाति सफलतायै किम् करणीयम्।”
हिन्दुस्थान समाचार / अंशु गुप्ता