संघस्य शताब्दीवर्षस्य अवसरस्य सन्दर्भे नितिनगडकरी स्वयंसेवकानां योगदानस्य प्रशंसा कृतवान्
नवदेहली, 1 अक्टूबरमासः (हि.स.)। केंद्रीय-सड़क-परिवहन-राजमार्ग-मन्त्री नितिन-गडकरी महोदयः राष्ट्रीयस्वयंसेवकसंघस्य शताब्दी-वर्षे राष्ट्र-निर्माणे स्वयंसेवकानां योगदानस्य प्रशंसा कृतवान्। गडकरी-महोदयः अवदत् यत् गतशताब्द्यां संघेन ‘राष्ट्र-प्रथम’ इति भ
नितिन गडकरी


नवदेहली, 1 अक्टूबरमासः (हि.स.)। केंद्रीय-सड़क-परिवहन-राजमार्ग-मन्त्री नितिन-गडकरी महोदयः राष्ट्रीयस्वयंसेवकसंघस्य शताब्दी-वर्षे राष्ट्र-निर्माणे स्वयंसेवकानां योगदानस्य प्रशंसा कृतवान्।

गडकरी-महोदयः अवदत् यत् गतशताब्द्यां संघेन ‘राष्ट्र-प्रथम’ इति भावेन कार्यं कृतम्, येन सहस्रशः स्वयंसेवकाः त्यागसमर्पणयोः मार्गे प्रेरिताः।

बुधवासरे स्वस्य एक्स सन्देशे तेन लिखितम्—“राष्ट्र-प्रथमस्य संकल्पं जीवनस्य उद्देश्यत्वेन स्वीकृत्य मातृभूमेः सेवायै समर्पितः विश्वस्य महान् स्वयंसेवी-संगठनः राष्ट्रीय-स्वयंसेवक-संघः विगतशताब्द्यां राष्ट्र-निर्माणे महत्त्वपूर्णं योगदानं दत्तवान्। अस्मिन् कालखण्डे सहस्रशः स्वयंसेवकाः स्वार्थात् परं गत्वा राष्ट्रार्थं समर्पणभावेन त्यागमार्गे प्रेरिताः।”

गडकरी-महोदयेन प्रधानमन्त्रिणा नरेन्द्रेण मोदिना संघस्य शताब्दी-वर्ष-उपलक्ष्ये विमोचितस्य विशेष-डाक-टिकटस्य स्मारकनाडकस्य च उल्लेखः कृतः, समस्तेभ्यः स्वयंसेवकेभ्यः शुभाशंसाः च दत्ताः।

उल्लेखनीयम् यत् प्रधानमन्त्रिणा नरेन्द्रेण मोदिना अद्य संघस्य शताब्दीवर्षप्रसङ्गे संस्कृतिमन्त्रालयस्य कार्यक्रमे विशेषरूपेण निर्मितं डाक-टिकटं शतरूप्यकमूल्यकं स्मारकनाडकं च विमोचितम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता