Enter your Email Address to subscribe to our newsletters
नवदेहली, 1 अक्टूबरमासः । प्रधानमन्त्रीनरेन्द्रमोदी बुधवासरे देहल्यां डॉ.अम्बेडकर-अन्तर्राष्ट्रीयकेन्द्रे आयोजिते राष्ट्रीयस्वयंसेवकसंघस्य (आरएसएस) शताब्दीसमारोहे भागं ग्रहीष्यति। कार्यक्रमः प्रातः १०.३० वादने आरभ्यते। अस्मिन् अवसरे प्रधानमन्त्री राष्ट्रं प्रति आरएसएस इत्यस्य योगदानं प्रकाशयन्तं विशेषरूपेण विनिर्मितं स्मारकडाकपत्रं सिक्कं च विमोक्ष्यन्ति। अस्मिन् वर्षे विजयदशमीतः आरभ्य २०२६ तमे वर्षे विजयदशमीपर्यन्तं आरएसएस शताब्दीवर्षं प्रतीयते।
प्रधानमन्त्र्याः कार्यालयेन प्रदत्ते निवेदने उक्तं यत्—प्रधानमन्त्रीमोदी अस्मिन् काले उपस्थितजनान् अपि सम्बोधयिष्यति।
डॉ.केशवबलिरामहेडगेवार-महाभागेन १९२५ तमे वर्षे महाराष्ट्रराज्यस्य नागपुरनगरे आरएसएस इत्यस्य स्थापना एकस्य स्वयंसेवकाधारितसङ्घटनरूपेण कृता आसीत्। नागरिकेषु सांस्कृतिकजागरूकता, अनुशासनं, सेवा, सामाजिककार्यं च प्रवर्धयितुं तस्य लक्ष्य: आसीत्। शताब्दीसमारोहः केवलं आरएसएस इत्यस्य ऐतिहासिकसिद्धीनां सम्मानं न करोति, अपि तु भारतस्य सांस्कृतिकयात्रायाम् अस्य स्थायीयोगदानं राष्ट्रीयैक्यस्य च सन्देशं प्रकाशयति। आरएसएस राष्ट्रीयपुनर्निर्माणाय अनन्यः जनपोषितः आन्दोलनः अस्ति।
---
हिन्दुस्थान समाचार / अंशु गुप्ता