Enter your Email Address to subscribe to our newsletters
रायपुरम्, 1 अक्टूबरमासः(हि.स.)।विद्युत्-संस्थायाः आश्वासनानन्तरमपि यदा मागाः न सन्तुष्टाः, तदा क्रुद्धाः नियमित-कर्मचारिणः अद्य प्रभृति कृष्णपट्टिकां बद्ध्वा कार्यं करिष्यन्ति। यावत् नियमितीकरणं चतुर्सूत्रीया मागाश्च कृते संविदाकर्मिणः १–२ अक्टूबरदिने कार्यं न करिष्यन्ति। एवमेव ट्रान्स्मिशन्-सम्स्थायाः उपकेन्द्रेषु सञ्चालकाः अपि २ अक्टूबरदिने सामूहिक-अवकाशं कर्तुं चेतां दत्तवन्तः।
छत्तीसगढ़-विद्युत्-कर्मचारि-संघ-महासंघस्य क्षेत्रीयाध्यक्षः परमेश्वर-कन्नौजे तथा सचिवः नीलाम्बर-सिन्हा इत्येताभ्यां ज्ञापितं यत्— ओपीएस्, संविदा-कर्मणां नियमितीकरणम्, त्रिशतांश-प्राविधिक-भृत्यं सहितं द्वाविंशतिसूत्र्याः याचनाः सन्ति। तदर्थं कर्मचारीणः १–८ अक्टूबरपर्यन्तं कृष्णपट्टिकां बन्धित्वा विरोधं प्रकाशयिष्यन्ति।
ते अवदन् यत् याचनासु विषये सम्स्थायाः प्रबन्धकैः पुनः पुनः केवलम् आश्वासनं दत्तं, न तु किञ्चिद् द्रढं निर्णयं कृतम्। मागानां सम्बन्धे महासंघेन चरणबद्धः आन्दोलनः प्रवर्त्यते। सप्ताहान्ते यद्यपि कृष्णपट्टिकां बन्धित्वा विरोधः प्रदर्शितः, तथापि ९ अक्टूबरयावत् मागेषु निर्णयः न भवेत् चेत् कर्मचारिणः अनिश्चितकालिकम् आंदोलनं कर्तुं बाध्याः भविष्यन्ति।
हिन्दुस्थान समाचार