संघे डाकपत्रं स्मृतेः नाडकस्य च विमोचनं ऐतिहासिकक्षणम् - रेखागुप्ता
नवदेहली, 01 अक्टुबरमासः (हि.स.)। देहलीमुख्यमन्त्रिणी रेखा गुप्ता अवदत् यत् अद्य राष्ट्रियस्वयंसेवकसंघस्य शतवर्ष-समारोहे संघस्य शतवर्षपर्यन्तं राष्ट्रसेवायाः सम्मानाय विशेषः डाकपत्रं स्मृतिनाणकं च विमोचितं, एषः सर्वेषां राष्ट्रभक्तानां कृते ऐतिहासिकः
प्रधानमंत्री नरेन्द्र मोदी बुधवार को “राष्ट्रीय स्वयंसेवक संघ शताब्दी समारोह” में संघ के 100 वर्षों पर विशेष डाक टिकट और स्मृति सिक्का जारी करते हुए, साथ में संघ के सरकार्यवाह दत्तात्रेय होसबोले, केंद्रीय मंत्री गजेंद्र सिंह शेखावत और दिल्ली की मुख्यमंत्री रेखा गुप्ता


नवदेहली, 01 अक्टुबरमासः (हि.स.)। देहलीमुख्यमन्त्रिणी रेखा गुप्ता अवदत् यत् अद्य राष्ट्रियस्वयंसेवकसंघस्य शतवर्ष-समारोहे संघस्य शतवर्षपर्यन्तं राष्ट्रसेवायाः सम्मानाय विशेषः डाकपत्रं स्मृतिनाणकं च विमोचितं, एषः सर्वेषां राष्ट्रभक्तानां कृते ऐतिहासिकः क्षणः अस्ति।

मुख्यमन्त्रिणी स्वस्य Ex लेखे उक्तवती यत्, “डॉ. हेडगेवारेन स्थापितायाः भूमेः आरभ्य अद्यतनसरसंघचालकेन डॉ. मोहनभागवतेन सह सर्वे अपि राष्ट्रनिर्माणस्य दिशि अमूल्यं योगदानं दत्तवन्तः। अनुशासनं, समर्पणं, मातृभूमेः प्रति निःस्वार्थभावेन सेवा – एतदेव संघस्य ध्येयम्। संघस्य स्वयंसेवकाः केवलं संगठनकार्येषु सीमिताः न भवन्ति, अपि तु भारतेः संस्कृतिं, परम्पराः, सामाजिकसौहार्दं च जनजनस्य समीपे प्रापयितुं अग्रगण्यं कार्यं कुर्वन्ति।”

सा अवदत् – “आपात्कालस्य युगे अपि संघः लोकतन्त्रस्य सजगः प्रहरी इव आसीत्। कठिनासु प्राकृतिक आपदासु संकटेषु च समये अपि संघस्य स्वयंसेवकाः निःस्वार्थेन समाजस्य सेवायां अग्रे गच्छन्ति। अद्य यदा वयं विकसितभारतस्य दिशि गच्छामः, तदा संघस्य तस्य च सहस्रशः समर्पितस्वयंसेवकानां अनुकरणीयं योगदानं दृश्यते।”

मुख्यमन्त्रिणी अवदत् यत् – “संघस्य शतवर्षपर्यन्तं गौरवमयी यात्रायाः स्मृत्यर्थं भारतसर्वकारेण विशेषः डाकपत्रं स्मृतिनाणकं च विमोचितौ, अस्मिन् अवसरे प्रधानमन्त्रिणं मोदीम् अभिनन्दामि, संघस्य राष्ट्रसेवायै समर्पितान् स्वयंसेवकान् अनन्ताशिषः ददामि च।”

उल्लेखनीयम् यत् प्रधानमन्त्रिणा अद्य देहलीस्थिते डॉ. अम्बेडकर-आन्तर्राष्ट्रिय-केंद्रे केन्द्रीयसंस्कृतिमन्त्रालयस्य कार्यक्रमे राष्ट्रियस्वयंसेवकसंघस्य राष्ट्रनिर्माणे योगदानस्य सम्मानाय विशेषः डाकपत्रं शत-रूप्यकस्मारकनाणकं च विमोचितौ। अस्मिन् कार्यक्रमे संघस्य सर्वकार्यवाहः दत्तात्रेयः होसबाले, केन्द्रीयसंस्कृतिपर्यटनमन्त्री गजेन्द्रसिंहः शेखावत्, मुख्यमन्त्रिणी रेखा गुप्ता च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता