Enter your Email Address to subscribe to our newsletters
चेन्नई, 01 अक्टुबरमासः (हि.स.)। तमिलनाडोः करूर-नगरे अभिनेता-जातः-नेता-विजयस्य यात्रायां जातायां भ्रमणदुर्घटनायां 41 जनाः मृताः, शताधिकाः जनाः आहताः च आसन्, येषां चिकित्सा विविधानि चिकित्सालयानि वर्तमानानि।
भारतीयजनतापक्षस्य प्रदेशाध्यक्षः नैनार नागेन्द्रनः स्वस्य Ex लेखे अवदत् –“ह्यः वयं भारतीयजनतापक्षेण निर्मितसमित्या सह, यत्र राजगस्य सांसदाः अपि सन्ति, करूर-भ्रमणस्य पीडितान् दृष्टवन्तः, तैः सह समालोचितवन्तः च। प्रतिपीडितस्य स्वरः अस्माकं हृदयेषु यः प्रभावं कृतवान्, तं वर्णयितुं शब्दाः अलम् न सन्ति। अस्य विषयस्य गम्भीरसमालोचनानन्तरं, मम मनसि जातान् प्रश्नान् अहं मुख्यमन्त्रिणं स्टालिनं प्रति स्थापयितुम् इच्छामि।”
नागेन्द्रनः अपृच्छत् –“किमर्थं करूर-बसस्थानगोलचक्रं केवलं मुख्यमन्त्रिणः उपमुख्यमन्त्रिणश्च कार्यक्रमायै आरक्षितम् आसीत्, अन्यपक्षानां न? दृश्येषु विजयस्य प्रति उपानहे प्रक्षिप्ताः, कार्यकर्तृषु दण्डप्रहारः कृतः, अपरे जनाः वदन्ति यत् ते छुरिकया आहताः। भ्रमणस्य कारणं किम्? मुख्यमन्त्री केवलं करूर-क्षेत्रे विशेषं ध्यानं किमर्थं दत्तवान्? कल्लाकुरिचौ अवैधमद्यपानात् मृतानां, वेंगैवयाल-प्रकरणे, मरीना-विमान-दुर्घटनायां मृतानां, 25 कारागार-जनानां मृत्युषु च तस्य हस्तः नास्ति किम् ?”
सः अपृच्छत् –“द्रमुकपक्षस्य नाटकं दृष्ट्वा अस्माभिः सहस्रलक्षजनैः शङ्का जाता। भगद्भ्रमणानन्तरं द्रमुक-सर्वकारः सत्यं गुप्तुं किमर्थं शीघ्रं चेष्टितवान्? केवलं 25 जनेषु विरुद्धं प्रकरणं दत्तम्, पत्रकारं फेलिक्सं सह चत्वारः अन्ये अपि गृहीताः – किमर्थं जनमानसे उद्भूताः प्रश्नाः शङ्काः च शीघ्रं निवार्यन्ते?”
पुनः अपृच्छत् –“द्रमुक-सर्वकारस्य आसक्षकः यः विजयस्य सभायां केवलं 10,000 जनानां सङ्ग्रहः इति मिथ्यागणना आरोपयति, सः स्वयम् जनसमूहस्य यथार्थगणनां किमर्थं न कृतवान्? यदि विजयः विलम्बेन आगच्छेत् चेत् अप्रियघटना स्यात् इति बोधितम्, तर्हि सभा किमर्थं न निरस्ताऽभवत्? नूनं आरक्षक कर्मिणां सङ्ख्या अल्पा आसीत्। वस्तुतः कतिपयाः तत्र नियोजिताः आसन्? यदा महती राजनीतिकसभा आसीत्, तदा करूर-जनपद आरक्षक प्रमुखः कुतः नासीत्? एतादृशेषु सर्वकारीयदोषेषु स्पष्टेषु अपि तत्राधिकारीणां प्रति काचित् क्रिया किमर्थं न कृताऽभवत्? किं गोपनीयतत्त्वस्य भयानकता अस्ति?”
नागेन्द्रनः अपृच्छत् –“अन्वेषणायोगाध्यक्षः प्रतिवेदनं दातुं पूर्वं द्रमुक-सर्वकारस्य विफलतां आच्छादयन्तः भाषणं किमर्थं करोति? राजस्वसचिवः अन्वेषणकाले सार्वजनिकं वक्तव्यं कस्य अनुमत्याः कृतवान्? किं एतत् अन्वेषणस्य निष्पक्षतां न हन्यते? सक्षमाः सर्वकारीयाधिकारी द्रमुकस्य कठपुतलीरूपेण उपयुज्यन्ते इति किं उचितम्? अजीतकुमार-कारागार-हत्या-प्रकरणं सीबीआई-समीपं दत्तं द्रमुक-सर्वकारः करूर-प्रकरणं सीबीआई-समीपे दातुं किमर्थं विलम्बं करोति?”
हिन्दुस्थान समाचार / अंशु गुप्ता