Enter your Email Address to subscribe to our newsletters
—अन्नपूर्णा मंदिरे महंत शंकरपुर्याः धार्मिक अनुष्ठाने विहितंकन्या पूजनम्
वाराणसी,01 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य धार्मिकनगरी वाराणस्यां शारदीयनवरात्रस्य महानवम्यां बुधवासरे कन्यापूजनं कृत्वा नवदिवसीयं व्रतम् समापनं प्राप्तम्। तथापि महाअष्टम्यां तिथौ अपि बहवः जनाः, जिलाप्रशासनं अन्यसंस्थानानि च कन्यापूजनं कृतवन्तः। आदिशक्तेः मातुः दुर्गायाः आराधनायाः महापर्वसमाप्तौ श्रद्धालवः स्वगृहेषु, सन्तः अपि स्वमठमन्दिरेषु कन्याः देविस्वरूपे, बालकान् च बालभैरवरूपेण पूजयामासुः। तासां पूजनान्ते हल्व–चनक–पूरीभिः भोगं निवेद्य उपहारं दत्तवन्तः।
नवदिनानि यावत् उपवासं कृतवन्तः श्रद्धालवः विजयादशम्यां गुरुवासरे व्रतपारणं करिष्यन्ति। अस्यैव क्रमस्य अन्तर्गतं अन्नपूर्णा–मन्दिरे महन्ता शङ्करपुरीनाम्ना धार्मिकानुष्ठानस्य मध्ये विधिविधानतः कन्यापूजनं कृतम्।
विशेषतः द्रष्टव्यं यत् सनातनधर्मे नवरात्रौ कन्यापूजनस्य अत्यधिकं महत्वं विद्यते। विश्वासः अस्ति यत् कन्यापूजनं आदिशक्तेः (महिलायाः) प्रति श्रद्धानिवेदनं भवति। नवरात्रौ भक्ताः अष्टदिनानि यावत् उपवसन्ति, नवम्यां तिथौ नवकन्याः मातुः दुर्गायाः विविधानां स्वरूपाणां प्रतीकत्वेन पूजयन्ति। एषः अनुष्ठानः मातुः दुर्गायाः आराधनायाः सम्मानस्य च प्रतीकः मन्यते। अस्य भक्ति–भावेन आचरणेन श्रीः, समृद्धिः, सुख–शान्तिः, चिरंजीवितं च समाजे प्राप्तुम् ईश्वरीयमाशिषः लभ्यते इति श्रूयते
।
हिन्दुस्थान समाचार