योगीसर्वकारस्य कृषकाणां पंजीकरणे बलं , समस्तेषु जनपदेषु 50 प्रतिशतं कार्यं पूर्णम्
लखनऊ, 1 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशे कृषक-पञ्जीकरणे योगी-सर्वकारस्य विशेष-प्रयत्नः मुख्यमंत्रिणो योगिनः आदित्यनाथस्य नेतृत्वे प्रदेश-सरकारा कृषकाणां पञ्जीकरणे विशेषं बलं ददाति। प्रदेशव्यापी कृषक-पञ्जीकरण-कार्यं शीघ्रतया प्रवर्तते। अद्यावधि उत्तर
योगी आदित्यनाथ


लखनऊ, 1 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशे कृषक-पञ्जीकरणे योगी-सर्वकारस्य विशेष-प्रयत्नः

मुख्यमंत्रिणो योगिनः आदित्यनाथस्य नेतृत्वे प्रदेश-सरकारा कृषकाणां पञ्जीकरणे विशेषं बलं ददाति। प्रदेशव्यापी कृषक-पञ्जीकरण-कार्यं शीघ्रतया प्रवर्तते। अद्यावधि उत्तरप्रदेशस्य सर्वेषु जनपदेषु प्रायः ५०% फॉर्मर-रजिस्ट्री कार्यं सम्पन्नम्।केन्द्र-सर्वकारः स्पष्टं निर्दिष्टवती यत् १ अप्रैल् २०२६ तः आरभ्य पीएम-किसान-सम्भान-निधेः किश्तः केवलं तेषां कृषकानां भविष्यति ये पोटल्-माध्यमेन पञ्जीकृताः भविष्यन्ति। अस्मात् कारणात् योगी-सर्वकारः शीघ्रं सम्पूर्णे प्रदेशे कृषक-पञ्जीकरणं प्रवर्तयितुं विशेषं प्रयत्नं करोति।प्रत्येक-जिले शिविर-आयोजनम्योगी-सरकारा सर्वान् जिलाधिकारिणः आदेशं दत्तवती यत् प्रधान-कृषक-पटले प्रत्येक-कृषकस्य विवरणं अद्यतनं कार्यम् क्रियेत। तस्मादर्थं १६ अक्टूबर् तः ३० नवम्बरं पर्यन्तं प्रतिदिनं शिविराः आयोज्यन्ते। प्रत्येक-ग्रामे न्यूनातिन्यूनं एकः शिविरः अनिवार्यतया भविष्यति। तत्र कृषकाः स्थल एव पञ्जीकरणं विवरणस्य च अद्यतनं कर्तुं शक्नुवन्ति।कानिचन जिलाः ५५% तः अधिकं पञ्जीकरणं कृतवन्तःप्रदेशे अद्यापि ५०% तः अधिकं कार्यं सम्पन्नम्। केचन जिलाः उल्लेखनीयां प्रगत्यां प्राप्तवन्तः।रामपुरम् – ६१.३७%बिजनौरम् – ५८.९२%हरदोई – ५८.३१%श्रावस्ती – ५८.०१%पीलीभीतम्– ५७.५८%अम्बेडकरनगरम् – ५७.४६%मुरादाबाद – ५७.१७%बरेली – ५६.८०%गाजियाबाद – ५६.७९%कौशाम्बी – ५६.०९%कृषि-विभागस्य अपीलःकृषि-विभागेन निर्गत-प्रेस-विज्ञप्त्यां कृषकान् प्रति अपीलः कृतः यत् ते समये स्व-पञ्जीकरणं कुर्वन्तु, येन कोऽपि कृषकः प्रधानमंत्रि-कृषक-सम्भान-निधेः आगामी-किष्टात् वञ्चितः न भवेत्।

हिन्दुस्थान समाचार