Enter your Email Address to subscribe to our newsletters
-यूपीएसआरटीसी इत्यस्य एसी बसयानेषु 10 प्रतिशतं यावद्भविष्यति न्यूनम्
-वातानुकूलितेषु बसयानेषु सफर होगा सस्ता, जनरथ, पिंक, शताब्दी और वोल्वो बसों पर छूट लागू
लखनऊ, 1 अक्टूबरमासः (हि. स.)।
उत्तरप्रदेशस्य योगी-सर्वकारः प्रदेशवासिभ्यः दशहरा-दीपावली पर्वयोः अवसरयोः उपहारः प्रदत्तः। सरकारा उत्तरप्रदेश-परिवहन-निगमस्य सर्वासु वातानुकूलित-बससेवासु किरायस्य प्रायः दशांश-शतम् (१०%) न्यूनतां अग्रिम-आदेशपर्यन्तं प्रवर्तयितुं निर्णयं कृतवती।
परिवहन-राज्यमन्त्री (स्वतन्त्र-प्रभार) दयाशङ्करः सिंहः बुधवासरे उक्तवान् यत् योगी-सरकारा जनान् प्रति उत्तमान् सेवाः प्रदातुं प्रतिबद्धा अस्ति। अस्य निर्णयस्य फलस्वरूपे यात्रिभ्यः न्यून-भाटकेन सुलभं सुखदं च गमनं भविष्यति।
एषा छूट जनरथ, पिंक, शताब्दी, वोल्वो, वातानुकूलित-शयनयान इत्यादिषु सेवासु प्रवर्तिष्यते। किन्तु १ जनवरी २०२४ परतः पञ्जीकृतासु नूतनासु वातानुकूलित-बससेवासु एषा छूट न भविष्यति।
भाटक-संरचना (वातानुकूलित-बस-सेवाः)
३×२ बस-सेवा – प्रति किलोमीटरं १.४५ रूप्यकानि।
२×२ बस-सेवा – प्रति किलोमीटरं १.६० रूप्यकानि।
उच्च-स्तरीया (वोल्वो) बसाः – प्रति किलोमीटरं २.३० रूप्यकानि।
वातानुकूलित-शयनयान-सेवा – प्रति किलोमीटरं २.१० रूप्यकानि।
निगमस्य आय-संरक्षणम्
परिवहन-मन्त्री निर्देशं दत्तवान् यत् निगमस्य सकल-आयः न बाध्येत। अतः बसासु नियोजिताः चालक-परिचालकाः अधिकं यात्रिकान् आकर्षयितुं विशेष-परामर्शनेन प्रेरिताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार