(मन्त्रिमण्डल) वन्देमातरं गीतस्य १५० वर्षाणां पूर्णत्वे कार्यक्रमेभ्यः अनुमोदनम्
नवदेहली, 1 अक्टूबरमासः (हि.स.)। केन्द्रसरकारा राष्ट्रगीतस्य वन्दे मातरम् इत्यस्य १५० वर्षाणां पूर्णत्वं देशव्यापि उत्सवस्वरूपेण आचरिष्यति। प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य अध्यक्षतायां बुधवासरे सम्पन्ने मन्त्रिमण्डलस्य सभायाम् अस्य देशव्यापिनः आ
अश्विनी वैष्णव प्रेसवार्ता को संबोधित करते हुए


नवदेहली, 1 अक्टूबरमासः (हि.स.)। केन्द्रसरकारा राष्ट्रगीतस्य वन्दे मातरम् इत्यस्य १५० वर्षाणां पूर्णत्वं देशव्यापि उत्सवस्वरूपेण आचरिष्यति।

प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य अध्यक्षतायां बुधवासरे सम्पन्ने मन्त्रिमण्डलस्य सभायाम् अस्य देशव्यापिनः आयोजनेभ्यः अनुमोदना दत्ता।

सूचनाप्रसारणमन्त्री अश्विनी वैष्णवः नेशनल् मीडियाकेन्द्रे पत्रकारसम्मेलनम् उपस्थाय उक्तवान्— अस्मिन् संवत्सरे राष्ट्रगीतस्य १५० वर्षाणि पूर्णानि भवन्ति। तत् उत्सवरूपेण आचरितुं निर्णयः कृतः अस्ति। सर्वेभ्यः, विशेषतः युवजनानाम्, इतिहासेन सह सम्बद्धतां दातुं गीतस्य मूलभावना जनजनस्य समीपे नीतव्या। देशव्यापि बहवः कार्यक्रमाः आयोजिताः भविष्यन्ति।

राष्ट्रप्रेम-सांस्कृतिकास्मितयोः प्रतीकं एतत् गीतम् बंकिमचन्द्र-चट्टोपाध्यायेन १८७५ तमे वर्षे रचितम्। आगामी ७ नवम्बर २०२५ तमे दिने तस्य १५० वर्षाणि पूर्णानि भविष्यन्ति। २४ जनवरी १९५० तमे दिने भारतसंविधानसभया एतत् राष्ट्रगीतं घोषितम्।

देशभक्तिभरितं तस्य काव्यं तस्यैव आनन्दमठे इत्यस्मिन् उपन्यासे प्रथमं प्रकाशितम् आसीत्। अस्य रचनया तस्मिन् काले भारतस्य स्वतन्त्रतायुद्धं युध्यमानानाम् वीरसपुतानाम् प्रेरणास्रोतत्वेन कार्यं कृतम्।

------------

हिन्दुस्थान समाचार / अंशु गुप्ता