Enter your Email Address to subscribe to our newsletters
खड़गपुरम्, 1 अक्टूबरमासः (हि.स.)। राज्यस्य प्रमुखपहलायाः पोषणमासस्य अन्तर्गतम् भारतीयप्रौद्योगिकीसंस्थानस्य खड़गपुरस्थितः समुदायकायचिकित्सा विभागः डॉ॰ बी.सी. राय बहुविशेषज्ञचिकित्साअनुसन्धानकेन्द्रेण, डॉ॰ श्यामाप्रसादमुखर्जी अतिविशेषज्ञचिकित्सालयस्य सहयोगेन, अष्टमः राष्ट्रीयपोषणमासः २०२५ सफलतया आयोजितः।
अस्य राष्ट्रीयपोषणमासस्य विषयः — “श्रेष्ठजीवनाय उचितं भोजनम्” इति निर्दिष्टः, यस्य उद्देश्यः जनान् समुदायांश्च स्वास्थ्यकरान् आहारविकल्पान् चयनाय सजगान् कर्तुम्, दीर्घकालिकस्वास्थ्यं कल्याणं च प्रोत्साहितुं च अस्ति।
जागरूकताकार्यक्रमः संस्थानस्य हिजली ग्राम्यचिकित्सालये आर.एच.टी.सी. इत्यस्मिन् आस्थितः। अस्मिन् अवसरे देशभरात् १६०-अधिकाः आशाकार्यकर्तारः सक्रियसहभागितया उपस्थिताः आसन्।
कार्यक्रमस्य मुख्यविशेषताः आसन् — पोषण तथा मातृ-शिशुस्वास्थ्यविषये अन्तःक्रियात्मकसत्रम्,
संतुलिताहारविषये व्यवहारिकप्रदर्शनम्, स्वास्थ्यपरीक्षणं जागरूकतासभाश्च, आधारस्तरे स्वास्थ्यकर्मिणां क्षमताविकासकार्यक्रमः।
भारतीयप्रौद्योगिकीसंस्थानं खड़गपुर आशाकार्यकर्तॄणां स्वास्थ्यकर्मिणां च योगदानस्य प्रशंसा कृतवद्, उक्तं च — ते पोषणमासस्य उद्देश्यानाम् पूर्तौ महत्त्वपूर्णं योगदानं वहन्ति। संस्थानं सततं सार्वजनिकस्वास्थ्यपहलासु, समुदायकल्याणे च प्रतिबद्धं अस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता