Enter your Email Address to subscribe to our newsletters
नवदेहली, 1 अक्टूबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मु विजयादशम्याः पूर्वसन्ध्यायाम् देशबान्धवेषु शुभाशंसाः प्रदत्तवन्ती अस्ति। राष्ट्रपतिः स्वसन्देशे उक्तवती— विजयादशम्याः अवसरः सर्वेषु देशबान्धवेषु हृदयङ्गमाः बधाईः शुभकामनाश्च प्रदातुम् इच्छामि। अयं पर्वः अधर्मे धर्मस्य जयस्य प्रतीकः अस्ति, यः अस्मान् सत्यन्याययोः मार्गे सञ्चरणाय प्रेरयति।
राष्ट्रपतिः उक्तवती यत्, अस्य पर्वस्य उत्सवः देशस्य विभिन्नप्रदेशेषु रावणदहनरूपेण दुर्गापूजारूपेण च सम्पद्यते, यः अस्माकं राष्ट्रीय-मूल्यानि प्रकाशयति। अयं पर्वः क्रोधम् अहंकारं च त्यक्त्वा साहसम् दृढसंकल्पं चाङ्गीकारयितुं शिक्षां दत्ते।
राष्ट्रपतिः आशीर्वचनं दत्त्वा अवदत्— अयं पर्वः अस्मान् तादृशस्य समाजस्य राष्ट्रस्य च निर्माणाय प्रेरयतु, यत्र सर्वे जनाः न्याय-समानता-सद्भावनायाः विचारैः प्रेरिताः सन्तः एकत्र मिलित्वा अग्रे गच्छेयुः।
-----------
हिन्दुस्थान समाचार / अंशु गुप्ता