Enter your Email Address to subscribe to our newsletters
सरदारपटेलं प्रति पुष्पाण्यर्प्य नमस्कृतवती।
गिर-सोमनाथमासः, 10 अक्टूबरमासः (हि.स.)। भारतस्य राष्ट्रपतिः द्रौपदी मुर्मु: स्वस्य गुजरातप्रदेशस्य त्रिदिवसीयदौर्यस्य द्वितीये दिने शुक्रवासरे द्वादशज्योतिर्लिङ्गेषु प्रथमं ज्योतिर्लिङ्गं सोमेश्वरमहादेवं द्रष्टुं सोमनाथं प्रति आगता। तत्र त्रिवेणी–विमानपृष्ठे (हेलीपैड्) तस्याः हार्दं स्वागतं कृतम्।
विमानपृष्ठे पर्यटनमन्त्री मूलुबेरा:, सांसदराजेशचुडासमा:, जिलाधिपः एन.वी. उपाध्याय:, तथा जिलआरक्षक–अधीक्षकः जयदीपसिंह–जाडेजा इत्येते जनाः राष्ट्रपतिं पुष्पगुच्छैः अभिनन्द्य स्वागतवन्तः।
ततश्च राष्ट्रपतिः द्रौपदी मुर्मु: अद्य सोमेश्वरमहादेवस्य दर्शनात् पूर्वं दिग्विजयद्वारस्य पुरतः स्थितस्य अखण्डभारतस्य शिल्पिनः तथा सोमेश्वरमन्दिरस्य जीर्णोद्धारस्य संकल्पकर्तुः सरदारवल्लभभाईपटेलस्य प्रतिमायां पुष्पमालां समर्प्य प्रणम्य तं प्रति श्रद्धां व्यञ्जयत्। सा सरदारपटेलं राष्ट्रसेवायाः अतुलनीययोगदानं स्मृत्वा तस्मै भाववन्दनां कृतवती।
सोमनाथमन्दिरपरिसरे पर्यटनमन्त्री मूलुभाईबेरा:, सोमनाथ–विश्वस्तसमितेः सदस्यः एवं राज्यस्य पूर्वमुख्यसचिवः पी.के. लहेरी, विश्वस्तः जे.डी. परमारः, च विश्वस्त–सचिवः योगेन्द्रदेसाई इत्येते अपि राष्ट्रपतिं सस्नेहं स्वागतवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता