Enter your Email Address to subscribe to our newsletters
छिंदवाड़ा, 10 अक्टूबरमासः (हि.स.)। मध्यप्रदेशे कोल्ड्रिफ्-कफ्-सिरप् इत्यस्य सेवनात् मूत्रपिण्ड-संक्रमणेन अद्यावधि २३ बालकानां मृत्युः जातः। अस्य प्रकरणस्य सन्दर्भे तमिलनाडुराज्ये स्थितायाः श्रीसन्-फार्मास्युटिकल् इत्यस्य औषधनिर्माण-कम्पन्याः सञ्चालकः (स्वामी) जी. रंगनाथनः इति नामकः पुरुषः मध्यप्रदेशस्य विशेषअन्वेषण-दलम् (एस्.आइ.टी.) चेन्नैपुर्यात् ट्रान्जिट्-रिमाण्ड् (अन्तरिम-न्यायिक-हिरासत्) इत्यस्य अन्तर्गतं छिन्दवाडानगरं नीतः। शुक्रवारदिने तं परासिया-न्यायालये प्रस्तोतुं सज्जता क्रियते। स्थानीय-पुलिस् न्यायालयपरिसरस्य समीपे सुरक्षा-व्यवस्थां स्थापयति।
वास्तवतः, मध्यप्रदेशे गतमासात् आरभ्य कोल्ड्रिफ्-कफ्-सिरप् सेवनात् निरन्तरं बालकानां मृत्युः भवति स्म। गुरुवासरस्य अपराह्णे अपि एकस्य बालकस्य निधनं जातम्। छिन्दवाडायाः मोरडोगरी-परासिया-प्रदेशवासी गर्विकः (एकवर्षीयः), बाबूपवारस्य पुत्रः, नागपुरे चिकित्सामहाविद्यालये उपचारकाले एव प्राणान् त्यक्तवान्। एतेन प्रदेशे कफ्-सिरप्-सेवनात् मृतानां बालकानां संख्या २३ जाता।
बालमृत्यूनां पश्चात् कोल्ड्रिफ्-कफ्-सिरप् निर्माणकर्तुः श्रीसन्-फार्मा इत्यस्य स्वामी गोविन्दन्-रंगनाथनः इत्यस्य विरुद्धं परासिया-थाने ५ अक्टूबरदिने एफ्.आइ.आर्. (प्रथम-सूचना-रिपोर्ट्) लेखिता। ततः प्रकरणस्य अन्वेषणाय म.प्र. सरकारेण विशेष-अन्वेषण-दलम् (एस्.आइ.टी.) निर्मितम्। एतद् दलं बुधवासरे चेन्नैम् आगत्य रात्रौ एव रंगनाथनं गिरप्तवान्। गुरुवासरे एस्.आइ.टी. तं स्थानीय-न्यायालये प्रस्तुत्य ट्रान्जिट्-रिमाण्ड्-अनुमतिं याचितवती।
न्यायालयेन निग्रहस्य प्रदत्ते, गुरुवासररात्रौ एस्.आइ.टी.-दलम् चेन्नैपुर्यात् विमानमार्गेण रंगनाथनं आनयत्। शुक्रवारस्य प्रातःकाले सः नागपुरम् आगतः (प्रायः षट्वादने)। ततः नागपुरात् छिन्दवाडानगरं नीतः। प्रातः दशवादने दलम् रंगनाथनं सह छिन्दवाडायां प्राप्तम्, ततः सीधं परासिया-न्यायालयस्य दिशि प्रस्थितम्।
हिन्दुस्थान समाचार