Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 11 अक्टूबरमासः (हि.स.)। समाजवादीपक्षस्य राष्ट्रियाध्यक्षः अखिलेशयादवनामकस्य फेसबुकपटलं द्वादशघण्टापर्यन्तं निलम्बितम् आसीत्। अस्यां कार्यवाहीं प्रति समाजवादीपक्षेन एषा प्रतिक्रिया प्रदत्ता यत् एषा लोकतन्त्रस्य प्रति आक्रमणरूपा क्रिया इति।
एतेषां आरोपाणां संदर्भे सूचना-सञ्चारमन्त्री अश्विनी वैष्णवः सरकारस्य कस्यचित् भूमिकां निराकृतवान्। सः शनिवासरे माध्यमैः सह संवादे अवदत् — “अस्यां कार्यवाह्यां सरकारस्य कोऽपि हस्तः नास्ति।”
वैष्णवेन उक्तं यत् अखिलेशयादवस्य पृष्ठं फेसबुक्-नीतिव्यतिक्रमात्, विशेषतया अपमानजनकभाषायाः प्रयोगात्, निलम्बितम् आसीत्। तेन पुनः प्रतिपादितम् — “अस्य विषयस्य सम्बन्धे सरकारकृतं किञ्चन हस्तक्षेपं नास्ति।”
स्मरणीयं यत् शुक्रवासररात्रौ अखिलेशयादवस्य फेसबुक्-खातं अवरुद्धम् आसीत्। तस्य पृष्ठे अष्टमिल्यनाधिकाः अनुयायिनः सन्ति।
समाजवादीपक्षस्य आईटी-दल मेटा-नामकसंस्थां प्रति सूचनां दत्तवती, ततोऽनन्तरं शनिवासरदिने मध्याह्ने खातं पुनर्बहालं कृतम्।
मेटा-संस्थया उक्तं यत् एषा कार्यवाही तस्य फेसबुक्-पृष्ठे ‘हिंसकानि अश्लीलानि च लेखनानि’ प्रकाशितानि इति कारणेन कृतम्।
एतस्मिन् विषयः सपा-पक्षनेतारः सर्वकारं प्रति उत्तरदायीं घोषितवन्तः।
सपा-प्रवक्ताः फखरुल्हसनचाँदेन उक्तं यत् “केंद्रस्य भाजपाशासनं विरोधीस्वरान् दमनाय प्रयतते। अखिलेशस्य सत्यापितं पटलं सर्वकारीप्रणोदेन विना निलम्बितुं न शक्यते” इति।
--------------
हिन्दुस्थान समाचार