Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 11 अक्टूबरमासः (हि.स.)।
देशस्य अत्यधिकेषु व्यस्तेषु रेलस्थानकेषु प्रमुखं नवदिल्ली-रेलस्थानकं यात्रिकानां अनुभवस्य उन्नयनदिशायां महद् अग्रे सरति। शनिवासरे रेलमन्त्री अश्विनिवैष्णवः नूतननिर्मितं “यात्री-सुविधा-केन्द्रम्” निरीक्षितवान्।
एतत् अत्याधुनिकः स्थायी “होल्डिङ्ग्-क्षेत्रम्” एकस्मिन् काले सप्तसहस्रपर्यन्तं यात्रिकान् समायोजयितुं शक्नोति, येन स्थानके संमर्द-नियन्त्रणं यात्रिकसुविधा च अत्यन्तं वृद्दिं प्राप्स्यतः।
माध्यमैः सह संवादे मन्त्री अवदत् — “नवदिल्ली-स्थानके प्रायः उत्सवकाले यात्रिकाणां आकस्मिकं प्रवर्धनं दृश्यते। द्विवार्षपूर्वं अस्थायी-होल्डिङ्ग्-क्षेत्रस्य प्रयोगः कृतः आसीत्, येन यात्रिकाः बहु लाभं प्राप्नुवन्। तस्य प्रयोगस्य सफलतां दृष्ट्वा अधुना स्थायी ‘यात्री-सुविधा-केन्द्रम्’ निर्मितम्।”
एतत् केन्द्रं विशेषतः तेषां यात्रिकाणां कृते उपयोगी भविष्यति येषां समीपे आरक्षित-प्रवेशनपत्रं नास्ति। इदानीं ते प्रत्यक्षं अस्मिन् क्षेत्रे प्रवेश्य, एकत्र एव प्रवेशनपत्र-क्रयः, आसनम्, पेय-जलम्, शौचालयः, अन्याः च सुविधाः लभ्याः भविष्यन्ति।
अन्तःस्थाः प्रवेशनपत्र-सूचनाकेंद्राणि अस्मिन् केन्द्रे स्थानान्तरितानि, नूतनानि च उद्घाटितानि। अत्र १५०-अधिकाः शौचालयाः, आर.ओ. आधारितं पेयजलम्, विश्रान्त्युपवेशन-सुविधा, सुरक्षा-निमित्तं सीसीटीवी-चित्रग्राहकाः, लगेज्-स्कैनरः, मेटल्-डिटेक्टरः च स्थापिताः।
वैष्णवमन्त्रिणा उक्तं यत् “ प्रधानमन्त्रिणो नरेन्द्रमोदिनः नेतृत्वे रेलव्यवस्थायाः रूपान्तरणं शीघ्रं प्रचलति — नवाः पट्टिकाः, नवस्थानकानि, होल्डिङ्ग्-क्षेत्राणि, नूतनाः रेलयानाः, आधुनिकाः लोकोमोटिव्-कोच् इत्यादयः उत्पाद्यन्ते।
मन्त्रिणा उक्तं यत् “षष्ठी दीपावली च उत्सवयोः अवसरयोः अभूतपूर्वसंख्यायाम् विशेष-रेलयानानि सञ्चालयिष्यन्ते। एतत् तावत् सम्भवम् यतः रेलव्यवस्थायाः क्षमता अतीव संवृद्धा अस्ति। अद्यावधि चतुस्त्रिंशत्-सहस्र-किलोमीट्र-नव-पट्टिकाः बिछादिताः। एकलक्षत्रिंशदधिकस्य कर्मचाऱिणां नियुक्तिप्रक्रिया प्रचलति, अष्टादशसहस्र-लोको-पायलटनां नियुक्तिः सम्पन्ना। द्वादशसहस्र-नव-जनरल्-कोच्-निर्माणं प्रचलति, तत्र त्रिसहस्र-कोच् प्रयोक्तव्याः भवन्ति।”
एतत् “यात्री-सुविधा-केन्द्रं” सुव्यवस्थित-यात्रिक-आवागमनार्थं त्रिषु मुख्येषु क्षेत्रेषु विभक्तः अस्ति —
1. चिटिकाक्षेत्रम् (२८६० वर्ग-मीटर)
2. प्रथम-चिटिकाक्षेत्रम् (११५० वर्ग-मीटर)
3. प्री-चिटिकाक्षेत्रम् (१२१८ वर्ग-मीटर)
एतेन मुख्यद्वारे यात्रिक-संमर्द-नियन्त्रणं सुलभं भविष्यति, अनुभवः च सुखदः।
उत्तर-रेलवेद्वारा निर्मितेऽस्मिन् केन्द्रे सर्वाः आधुनिकाः व्यवस्थाः कुशलतया स्थाप्यन्ते —
२२ आधुनिक-टिकिट्-काउण्टराः, २५ स्वयंचालित-टिकिट्-विक्रय-यन्त्राणि, २००-आसनक्षमता, १८ विशालाः मंदगत्याः पंखाः, ६५२-वर्गमीटर-शौचालय-ब्लॉकः, आर.ओ. पेयजल-सुविधा, २४-ध्वनिप्रसारण-स्पीकराः, ३ एल.ई.डी. सूचना-पटाः, ७ अग्निशमन-इकाइयः, १८ सीसीटीवी-चित्रग्राहकाः, ५ लगेज्-स्कैनरः, ५ मेटल्-डिटेक्टर्-द्वाराणि च।
सहकार्येण फुट्-ओवर्-ब्रिज् (एफओबी-१) विस्तारः अपि कृतः, येन रेलयानात् अवतीर्णाः यात्रिकाः प्रत्यक्षं मेट्रो-स्थानकं प्रति गन्तुं शक्नुवन्ति। एतेन भीड-कमीकरणं मल्टी-मोडल्-सम्बद्धता च सुदृढा भविष्यति।
वैष्णवः अवदत् — “एवमेव स्थायी व्यवस्था देशस्य षट्षष्टितमेभ्यः प्रमुखस्थानकेभ्यः अपि स्थाप्यते, यत्र यात्रिकानां भीड् विशेषतया दृश्यते। नवदिल्ली-स्थानके अस्य प्रणालीस्य प्रारम्भिक-परीक्षणं छठ् दीपावलि च उत्सवयोः समये भविष्यति। तत्फलानुसारं अन्येषु स्थानकेषु अपि कार्यान्वितं भविष्यति।”
मन्त्रिणा उक्तं यद् “आगामिमासेषु रेलस्य ऑनलाइन्-सेवाक्षमता दशगुणा भविष्यति। ‘आईआरसीटीसी’ प्रणाली फरवरी-माच् मासयोः पर्यन्तं अत्यधिकं संवर्धिता भविष्यति। जनाः शीघ्रं ‘रेलवन्’ ऐप् प्रति स्थानांतरं कुर्वन्ति। रेलस्य प्रमुखलक्ष्यं यात्रिकसुविधा-सुरक्षा च सुनिश्चितुं अस्ति। रेलमार्गः भारतस्य मध्यम-निम्न-आयवर्गाणां प्रमुखं परिवहनसाधनं अस्ति, अतः तेषां सुविधावृद्ध्यर्थं सरकारः निरन्तरं प्रयतते।”
निरीक्षणकाले रेलमन्त्रिणा सह रेलवे-बोर्डस्य अध्यक्षः सीईओ च सतीशकुमारः, उत्तर-रेलवे-महाप्रबन्धकः अशोककुमारवर्मा, अन्ये वरिष्ठाधिकारीणः च उपस्थिताः आसन्। तैः अस्य केन्द्रस्य योजनां निर्माणं संचालनं च विषये विस्तृतं विवरणं दत्तम्।
---------------
हिन्दुस्थान समाचार