अयोध्यायां ५६ घाटेषु २८ लक्षदीपप्रदीपानां प्रकाशेन प्रकाशितः भविष्यति, येन नूतनः विश्वकीर्तिमानं निर्मास्यते
लक्ष्मणकिलाघाटः प्रथमतया दीपोत्सवस्य आकर्षणकेंद्रम् अभवत्। योगीसर्वकारस्य नेतृत्वे अयोध्यायां दीपोत्सवः सांस्कृतिकगौरवस्य प्रतिकं भविष्यति। २२ समितयः युद्धसमानस्तरेण सज्जताषु संलग्नाः, सरयूतीरः दिव्यप्रकाशेन आलोकितः भविष्यति। दीपोत्सवेन अयोध्या
56 घाटों पर जगमगाएंगे 28 लाख दीप


लक्ष्मणकिलाघाटः प्रथमतया दीपोत्सवस्य आकर्षणकेंद्रम् अभवत्।

योगीसर्वकारस्य नेतृत्वे अयोध्यायां दीपोत्सवः सांस्कृतिकगौरवस्य प्रतिकं भविष्यति।

२२ समितयः युद्धसमानस्तरेण सज्जताषु संलग्नाः, सरयूतीरः दिव्यप्रकाशेन आलोकितः भविष्यति।

दीपोत्सवेन अयोध्यायाः आस्था संस्कृतिश्च विश्वपटलम् अपि प्राप्स्यति।

अयोध्या, 11 अक्टूबरमासः (हि.स.)। रामनगर्याम् अयोध्याम् अस्मिन् संवत्सरे पुनः विश्वमञ्चे स्वस्य आस्था, संस्कृति च गौरवस्य प्रकाशं प्रसारितुं यत्नशीलम् अस्ति। योगीसरकारस्य नेतृत्वे, एषः नवमः दीपोत्सवः २०२५ अतीव भव्यः ऐतिहासिकः च आयोजन इति भविष्यति। सरयूतीरस्य ५६ घाटेषु प्रायः २६ लक्ष दीपानां प्रज्वलनाय २८ लक्षदीपव्यवस्थाः क्रियन्ते, यत् नवं विश्वकीर्तिमानं स्थापयिष्यति। अस्मिन् संवत्सरे विशेषत्वेन लक्ष्मणकिलाघाटः प्रथमवारं दीपोत्सवस्य भागः अभवत्। अयोध्यायाः सांस्कृतिकगौरवं विश्वस्वरूपे प्रदर्शयितुं एषः दीपोत्सवः केवलं धार्मिकः उत्सवः नास्ति, किन्तु भारतस्य सनातनसंस्कृति, आध्यात्मिकता च विश्वबंधुत्वस्य सशक्तः प्रतीकः अस्ति। मुख्यमंत्री योगी आदित्यनाथस्य मार्गदर्शनं अन्तर्गत एषः आयोजनं न केवलम् अयोध्यायाः विकासं तथा राममन्दिरनिर्माणस्य दृष्टिं प्रबलयति, किन्तु उत्तरप्रदेशं धार्मिकपर्यटनस्य वैश्विककेंद्रे स्थापयितुं ऐतिहासिकम् अपि पादक्रमम् अस्ति। अस्मिन् अवसरे लक्षशः श्रद्धालवः देश-विदेशात् आगत्य रामनगर्याः दिव्यप्रकाशस्य साक्षी भविष्यन्ति।

घाटेषु दीपसागरः

लक्ष्मणकिलाघाटे प्रथमवारं सवा चतुर्युत् लक्षदीपाः प्रज्वलिताः स्युः। रामपैड़ी च चौधरीचरणसिंहघाटे प्रायः सार्धचतुर्लक्षदीपाः प्रज्वलिताः स्युः। भजनसंध्याघाटे सार्धपञ्च लक्ष दीपानां ज्योतिर्निर्मितेन सरयूतीरः अलौकिकप्रकाशेन दीपितः भविष्यति। मुख्यः आकर्षणः रामपैड़ी भविष्यति, यत्र १५–१६ लक्षदीपानां अविरलज्योतिर्निर्मितेन समग्रघाटः प्रज्वलितः स्याद्। मुख्यमंत्री योगी आदित्यनाथः स्वयं दीपप्रज्वलनं कृत्वा एतस्य भव्यकार्यक्रमस्य नेतृत्वं करिष्यन्ति तथा ‘जय श्रीराम’ उद्घोषेण समग्रं वातावरणं भक्तिमयम् भविष्यति।

पूर्ववर्तिनः विष्वकीर्तिमानं पराजितुं यत्नः

पूर्ववर्षेषु अयोध्यायाः दीपोत्सवः गिनीज़बुक्-ऑफ़-वर्ल्ड-रिकॉर्ड्से लिखितः आसीत्। अस्मिन् संवत्सरे लक्ष्यं तस्य रिकॉर्डस्य वृद्धिः, २८ लक्ष दीपानां नवं विश्वकीर्तिमानं स्थापितुम्। अस्य कार्याय सरकारः, प्रशासनं च स्वयंसेवकसंस्थाः च युद्धसमानस्तरेण तयारीषु संलग्नाः सन्ति। दीपसज्जा, सुरक्षा, सांस्कृतिकमंचनं, पर्यटकस्वागतश्च सूक्ष्मतया व्यवस्थितः।

दीपोत्सव २०२५ तथ्यसूची

नवमः दीपोत्सवः अयोध्यायाम्।

३३ लक्ष दीपानाम् आहत्य व्यवस्था। ७५ सहस्रं लिटर तैलस्य आवश्यकता। ५५ लक्षकार्पासस्य वार्तिकाः प्रस्थाप्यन्ते। ३० सहस्रं स्वयंसेवकेभ्यः टोपिका व टी-शर्ट वितरणीयाः। २८ लक्ष दीपाः व्यवस्थाप्य विश्वकीर्तिमानं निर्मीयते। २२ समितयः आयोजनं यथार्थं कुर्वन्ति। डा. राममनोहरलोहिया-अवधविश्वविद्यालयस्य दीपोत्सव-नोडलअधिकारी प्रो. संतशरणमिश्रस्य निर्देशनं अन्तर्गतं २२ समितयः गठिताः, यः दीपोत्सवस्य प्रत्येकपक्षस्य उत्तरदायित्वं वहन्ति। प्रमुखाः समितयः – समन्वयसमिति, अनुशासनसमिति, सुरक्षा समिति, दीपगणनासमिति, यातायातसमितिः, स्वच्छतासमितिः, मीडिया एवं फोटोग्राफीसमितिः, प्राथमिकचिकित्सासमितिः, साजसज्जा एवं रंगोलिसमितिः, वालंटियर-आईकार्डसमितिः, पर्यवेक्षणं च नियन्त्रणसमितिः। एते समित्याः संयोजकाः, सहसंयोजकाः, सदस्याः च दिनरात्रि अयोध्यां दिव्यरूपेण प्रदर्शयितुं संलग्नाः।

अध्यात्मिकं च राष्ट्रियं महत्वम्

एषः ‘रामराज्य’ आदर्शानां स्मरणम्, भारतीयसंस्कृतिः एकतायाः प्रतीकः, विश्वे शान्तिसंदेशस्य अवसरः च अस्ति। एषः आयोजनं अयोध्यां केवलं नगरी न, अपितु “विश्वसांस्कृतिकराजधानी” इति प्रतिष्ठापयति। दीपज्योतिर्न केवलं सरयूतीरम् आलोकयिष्यति, किन्तु समग्र भारतवर्षे च विश्वे च हृदयेषु आस्था, एकता च आशाज्योतिः प्रज्वलयिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता