Enter your Email Address to subscribe to our newsletters
मुख्यमन्त्रिणा योगिना आदित्यनाथेन 49तमस्य अन्ताराष्ट्रियकालीन- मेलापकस्य चतुर्थस्य च कार्पेट्एक्स्पो इत्यस्य शुभारम्भः कृतः।
लखनऊनगरम्/भदोही, 11 अक्टूबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे भदोहीनगरे 49तमे अन्तारराष्ट्रिय कालीनमेलापकस्य चतुर्थस्य च कार्पेट्एक्स्पो नामकस्य आयोजनस्य शुभारम्भं कृतवान्। तस्मिन् अवसरे सः देश-विदेशात् आगतानां कालीन-उद्यमिनां निर्यातकानां च सह संवादं कृत्वा तान् प्रति विश्वासनं दत्तवान् यत् प्रदेशसर्वकारः सर्वथा तेन सह स्थिता अस्ति। सः अवदत् यत् अमेरिकी करशुल्क इत्यस्मात् न भीतम् भवेत्, अपितु एषः कालः नूतनानां अवसरद्वाराणां उद्घाटनस्य समयः अस्ति इति।
कार्यक्रमे मुख्यमन्त्रिणा उक्तम् यत् “यदा यदा आव्हाननानि आगच्छन्ति, तदा ताः सहैव अवसरान् अपि आनयन्ति। अमेरिका टैरिफ् स्थापितवान् अस्ति, किन्तु एतत् केवलं एकदेशस्य निर्णयः अस्ति। वयं यूएई, यूके इत्यादिभिः देशैः सह मुक्तव्यापारसन्धेः दिशायां शीघ्रं गच्छामः। आगामिकाले एते सन्धयः अस्माकं उद्योगानाम् कृते नूतनान् विपणीन् उद्घास्यन्ति।” सः अपि उक्तवान् यत् सर्वकारेण एतत् विषयं प्रति एकम् उच्चस्तरीयसमितिं गठनं कृतम् अस्ति या टैरिफ्जन्यपरिस्थितेः निरन्तरं परीक्षणं करोति।
भदोहीप्रदेशीयस्य कालीनस्य वैश्विकविपणौ वर्धिता अभियाचना इति मुख्यमन्त्रिणा प्रोक्तम्। सः अवदत् यत् 11 वर्षपूर्वं कालीनउद्योगः सम्पूर्णरूपेण अवसानकाले आसीत्, किन्तु प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भदोही-मीरजापुर-वाराणस्य कालीनक्लस्टरः नूतनाम् ऊर्जा प्राप्तवान्। भदोही केन्द्रीकृत्य कार्पेट्एक्स्पोमार्ट् इत्यस्य स्थापना अपि कृता। प्रथमे एक्स्पोसमये विदेशीविक्रेतृणां सङ्ख्या अत्यल्पा आसीत्, अधुना तु 88 देशेभ्यः 300–400 पर्यन्तं विदेशीविक्रेताराः आगच्छन्ति। एतत् दर्शयति यत् वैश्विकविपणौ अस्य प्रदेशस्य कालीनानां याचना कथं वर्धिता अस्ति।
मुख्यमन्त्रिणा उक्तम् यत् उत्तरप्रदेश सर्वकारः कार्पेट्सेक्टरं सहितम् एम.एस्.एम्.ई. (सूक्ष्म-मध्यम-लघुउद्योग) तथा ओ.डी.ओ.पी. (एकजनपद-एकउत्पाद) योजना अन्तर्गतं सर्वेषां जनपदानां विशिष्टोद्योगान् प्रोत्साहितवती अस्ति। भदोहीकालीनम्, मुरादाबादस्य पीतलम्, फिरोजाबादस्य काचः, वाराणस्य रेशमवस्त्रं च नूतनाम् प्रतिष्ठाम् आपन्नानि। 2017 तमे वर्षे यदा वयं ओ.डी.ओ.पी. योजना आरब्धवन्तः, तदा कश्चन न चिन्तितवान् यत् उत्तरप्रदेशः द्विलक्षकोट्यधिकं निर्यातं करिष्यति— किन्तु अद्य एषा वस्तुतः सिद्धिः जाता।
कार्पेट् उद्योगः न केवलं व्यापारः, किन्तु अस्माकं शिल्पिनां हस्तशिल्पपरम्परायाः जीवन्तं प्रतीकम् इति मुख्यमन्त्रिणा सूचितम्। अधुना अयं उद्योगः 25–30 लक्षं जनान् रोजगारं दत्ते, प्रति वर्षं च 17 सहस्रकोटिरूप्यकाणां निर्यातं करोति। सः महिलास्वावलम्बनस्य महत्तमं साधनं जातः। सरकारस्य प्रयत्नः अस्ति यत् अधिकाः महिलाः अस्मिन् उद्योगे सम्मिलिताः भवन्तु, यतः ताः गृह एव स्थित्वा आर्थिकतया सशक्ताः भूयुः। सः अवदत् यत् भदोहीं लघुं न मन्यध्वं, सा प्रदेशस्य राष्ट्रस्य च आर्थिकशक्तेः प्रतीकः अस्ति। 2014 तस्मात् पूर्वं अयं उद्योगः मृतप्रायः आसीत्, अद्य तु एषः उत्तरप्रदेशस्य परिचयः जातः।
मुख्यमन्त्रिणा अपि उक्तम् यत् दीपावल्याः अवसरः सर्वेषां 75 जनपदेषु स्वदेशीमेलनां आयोजनं क्रियते, यत्र भदोहीकालीनानां विशेषाः प्रदर्शनस्थलाः स्थापिताः सन्ति।
अन्ते मुख्यमन्त्रिणा उक्तम् यत् अस्माकं लक्ष्यं केवलं उद्योगं रक्षितुं न, अपितु तं नूतनशिखरं प्रति नयितुम् अस्ति। यदा एकः देशः टैरिफ् स्थापयिष्यति, तदा वयं दशसु नूतनेषु देशेषु मार्गान् उद्घास्यामः। एष एव आत्मनिर्भरभारतस्य भावः। चुनौतिभ्यः न भीतम् भवेत्, अपि ताः अवसररूपे परिवर्तयेत्। सरकारः भवन्तं सह अस्ति, भवतः भविष्यं तेजोमयम् अस्ति।
अस्मिन् अवसरे सांसदः डॉ. विनोद बिन्दः, विधायकौ दीननाथ भास्कर-विपुलदुबे, जिला परिषदाध्यक्षः अनिरुद्ध त्रिपाठी, विकासायुक्तः हस्तशिल्पभारतसर्वकारस्य अमृतराजः, सीपीसी अध्यक्षः कुलदीपः, पद्मश्री डॉ. रजनीकान्तः, भदोहीकालीनउद्योगस्य पदाधिकारीगणः, हितसंबद्धाः च बहवः मान्यजनाः उपस्थिताः आसन्।
----------------
हिन्दुस्थान समाचार / ANSHU GUPTA