उत्तर बंगाल आपदायां नष्टचायोद्यानानि विकासयितुं राज्य सर्वकारस्य सहयोगं याचिष्यन्ति व्यवसायिनः
कोलकाता, 11 अक्टूबरमासः (हि.स.)।उत्तर–बङ्गाले निरन्तरं जातया मूसलधारया वर्षया भूमिस्खलनैश्च दार्जिलिङ्गप्रदेशस्य चाय–उद्यानानां महती हानि अभवन्। अनेकस्थलेषु उद्यानानां आन्तरिक–मार्गाः, विद्युत्–जलग्रहण–व्यवस्थाश्च अत्यन्तं बाधिताः। अस्य विनाशस्य अन
उत्तर बंगाल आपदायां नष्टचायोद्यानानि विकासयितुं राज्य सर्वकारस्य सहयोगं याचिष्यन्ति व्यवसायिनः


कोलकाता, 11 अक्टूबरमासः (हि.स.)।उत्तर–बङ्गाले निरन्तरं जातया मूसलधारया वर्षया भूमिस्खलनैश्च दार्जिलिङ्गप्रदेशस्य चाय–उद्यानानां महती हानि अभवन्। अनेकस्थलेषु उद्यानानां आन्तरिक–मार्गाः, विद्युत्–जलग्रहण–व्यवस्थाश्च अत्यन्तं बाधिताः। अस्य विनाशस्य अनन्तरं दार्जिलिङ्गस्य चाय–उद्यान–स्वामिनः अधुना राज्य–सर्कारात् साहाय्यं याचयितुं सज्जाः सन्ति, येन तेषां बागेषु मूलभूत–संरचना–संचार–व्यवस्थाश्च पुनः स्थापयितुं शक्येत, तथा च भविष्यस्य सस्यं अप्रभावितं भवेत्।प्राप्त–सूचनानुसारं दार्जिलिङ्ग–प्रदेशे ३०–३५ पर्यन्तानि चाय–उद्यानानि अतिवृष्ट्या भूमिस्खलनैश्च पीडितानि। कतिपये स्थलेषु चाय–वनस्पतयः प्रवाहिताः, श्रमिकानां गृहानि विनष्टानि, किञ्चित् कर्मकराणां निधनस्य अपि वार्ता प्राप्ता।दार्जिलिङ्ग–टी–असोसिएशन् (DTA) इत्यस्य सभायां राज्य–सर्कारात् सहाय्य–याचनायाः निर्णयः कृतः। संस्थायाः वरिष्ठसदस्यः चामोङ्–टी–संस्थायाः अध्यक्षः अशोक–लोहिया नामकः उक्तवान् यत् अतिवृष्ट्या उद्यानान्तरगत–मार्गाः अत्यन्तं क्षतिग्रस्ताः अभवन्।

DTA–प्रधानपरामर्शकः सन्दीप–मुखर्जी नामकः अवदत् यत्“अस्माभिः निश्चयः कृतः यत् राज्य–सर्कारात् उद्यानानां मार्ग–पेयजल–विद्युत्–प्रणालीनां पुनर्निर्माणार्थं सहाय्यं याच्यते, येन कार्य–प्रणाली सुचारुरूपेण प्रवर्तेत।”

दार्जिलिङ्ग–चाय–उत्पादक–संस्थाभ्यः एषः विनाशः महत्तरः आघातः अभवत्, यतः शरद्–ऋतौ उत्पन्ना फसलः — या वार्षिक–उत्पादनस्य १५–२० प्रतिशतं भागं वहति — अस्मिन् वर्षे अत्यन्तं पीडिता। गतवर्षे दार्जिलिङ्ग–चायायाः सुगन्धिता उत्पादन–मात्रा षट्–मिलियन–किलोग्रामतोऽपि न्यूनीजाता।

मुखर्जेः अनुसारं “सुमारे २००–२५० हेक्टेयर–प्रदेशे चाय–वनस्पतयः विनष्टाः, येन उद्यान–स्वामिनां आर्थिकः दवः (संकटम्) वर्धितः।”

हिन्दुस्थान समाचार