बंगाले जलप्लावनेन भूस्खलनेन च मृत्यूना प्रदत्ताः 40 यावत् प्राप्नुवन्, सर्वकारश्चालयिष्यति प्रपत्राणां पुनर्प्राप्तिशिविरम्
कोलकाता, 11 अक्टूबरमासः (हि.स.)।पश्चिमबङ्गस्य उत्तरभागेषु उत्पन्नया भयंकरया बाढ़भूस्खलनयुगलया मृतानां संख्या चत्वारिंशदधिकं जाता। गतचतुर्विंशतिघण्टायां एकः अधिकः शवः प्राप्तः, तस्मात् एषा संख्या वर्धिता। राष्ट्रीयआपदमोचनबलस्य (NDRF) दार्जिलिङ्-जल्प
संदकफू


कोलकाता, 11 अक्टूबरमासः (हि.स.)।पश्चिमबङ्गस्य उत्तरभागेषु उत्पन्नया भयंकरया बाढ़भूस्खलनयुगलया मृतानां संख्या चत्वारिंशदधिकं जाता। गतचतुर्विंशतिघण्टायां एकः अधिकः शवः प्राप्तः, तस्मात् एषा संख्या वर्धिता। राष्ट्रीयआपदमोचनबलस्य (NDRF) दार्जिलिङ्-जल्पायिगुडी-जिलाप्रशासनयोश्च नूतनसूचनानुसारं, गुरुवासरप्रभाते पर्यन्तं मृतानां संख्या ३९ आसीत्।

जिलाप्रशासनस्य अधिकारीकः कश्चन शुक्रवासरे उक्तवान् यत्, जल्पायिगुडी-जनपदस्य नागराकाटा-प्रदेशस्य बामुण्डाङ्गा-स्थिते तुडू-चायबागाने समीपे एकायाः स्त्रियाः शवः नदीमध्ये प्राप्तः। मृतायाः परिचयः अद्यापि न ज्ञातः।

एतस्मिन्नेव काले पर्वतीयेषु तराई-दुआर्स-प्रदेशेषु च जनाः उक्तवन्तः यत्, बाढ़-भूस्खलनयोः कारणेन तेषां आवश्यकाः परिचयपत्राणि महत्त्वपूर्णप्रपत्राणि च नष्टानि अथवा अवहन्। एतां समस्या दृष्ट्वा राज्यसरकारेण विशेषशिबिराणि स्थापयितुं निर्णयः कृतः, यत् पीडितजनाः नवदस्तावेजान् प्राप्तुं शक्नुयुः।

जल्पायिगुड्याः समीपे स्थिते अलीपुरद्वार-जिलायां जिलापुलिसप्रशासनम् पूर्वमेव कतिपयानि चलशिबिराणि आरब्धवान्। अलीपुरद्वारस्य पुलिसाध्याक्षः वाई. रघुवंशी इति शनिवासरे उक्तवान्— “वर्तमानस्थितौ जनानां थानं प्रति आगमनं कठिनम् अस्ति। अतः वयं चलशिबिराणि आरब्धवन्तः, यत्र जनाः स्वदस्तावेजहानिं सूचयितुं शक्नुवन्ति।” एतानि शिबिराणि यावत् स्थिति सामान्यां न गच्छति, तावत् प्रवर्तिष्यन्ते।

एतेन सह दार्जिलिङ्-जल्पायिगुडी-अलीपुरद्वार-जिलानां वनसीमान्तप्रदेशेषु अन्यः अपि भयः दृश्यते। जलप्लावनोत्तरकाले वनेषु आहाराभावात् जंगलीप्राणिनः अधुना निवासप्रदेशेषु आगन्तुं शक्यन्ते, येन मानव-वन्यजीव-संघर्षस्य आशङ्का वर्धते।

मुख्यमंत्री ममता बनर्जी १३ अक्टूबरतमे दिने पुनः उत्तरबङ्गप्रदेशं गमिष्यन्ति। अस्य यात्रायाः समये तस्याः भ्रमणं केवलं पर्वतीयप्रदेशेषु एव भविष्यति। अस्याः सप्ताहे सा पूर्वं उत्तरबङ्गस्य समतलीयप्रदेशान् निरीक्षितवती आसीत्।

------------------

हिन्दुस्थान समाचार