केन्द्रीय शिक्षा मंत्री धर्मेन्द्र प्रधानो लोकनायक जेपी जयंत्याम् अददात् श्रद्धांजलिम्
भुवनेश्वरम्, 11 अक्टूबरमासः (हि.स.)। केन्द्रीय–शिक्षामन्त्रिणा धर्मेन्द्रप्रधानेन लोकनायकस्य जयप्रकाशनारायणस्य जयंती–अवसरे तस्मै श्रद्धाञ्जलिः अर्पिता। धर्मेन्द्रप्रधानेन सामाजिक–माध्यमेषु तस्य स्मरणं कृत्वा लिखितं यल्लोकनायकस्य जयप्रकाशनारायणस्य ज
केन्द्रीय शिक्षा मंत्री धर्मेन्द्र प्रधानो लोकनायक जेपी जयंत्याम् अददात् श्रद्धांजलिम्


भुवनेश्वरम्, 11 अक्टूबरमासः (हि.स.)। केन्द्रीय–शिक्षामन्त्रिणा धर्मेन्द्रप्रधानेन लोकनायकस्य जयप्रकाशनारायणस्य जयंती–अवसरे तस्मै श्रद्धाञ्जलिः अर्पिता। धर्मेन्द्रप्रधानेन सामाजिक–माध्यमेषु तस्य स्मरणं कृत्वा लिखितं यल्लोकनायकस्य जयप्रकाशनारायणस्य जयन्त्यां तं कोटि–कोटिशो नमनं करोमि। भारतीय–लोकतन्त्रस्य इतिहासे जयप्रकाशजी नामकः स तेजस्वी व्यक्तित्वः, यस्य नेतृत्वेन अन्याय–अत्याचारयोः विरुद्धं जनशक्तिः ऐक्यं प्राप्य सत्तायाः अहङ्कारं विनाशयामास। तस्य सम्पूर्णं जीवनं सत्य–नैतिकता–लोकतन्त्र–मूल्यानां रक्षणाय समर्पितम्।

‘सम्पूर्ण–क्रान्तिः’ इत्यस्य आह्वानं केवलं आन्दोलनमात्रं न आसीत्, किन्तु भारतस्य आत्मसम्मान–स्वाभिमान–संवैधानिक–चेतनायाः पुनर्जागरणं आसीत्। लोकनायकः जयप्रकाशनारायणः सदा अस्माकं प्रेरणास्रोतः भविष्यति।

---------------

हिन्दुस्थान समाचार