Enter your Email Address to subscribe to our newsletters
भुवनेश्वरम्, 11 अक्टूबरमासः (हि.स.)।केन्द्रीयशिक्षामन्त्रिणा धर्मेन्द्रप्रधानेन ‘भारतरत्न’ श्रद्धेय नानाजीदेशमुखस्य जयन्त्यां तस्मै नमनं कृतम्। धर्मेन्द्रप्रधानेन सामाजिक–माध्यमेषु लिखितम् —
प्रखरः राष्ट्रवादी–चिन्तकः, भारतीय–जनसंघस्य संस्थापक–सदस्यः ‘भारतरत्न’ श्रद्धेयः नानाजी–देशमुखः इत्यस्य जयन्त्यां तस्मै कृतज्ञतापूर्वकं नमनं करोमि।
‘राष्ट्रऋषिः’ नानाजी–महाभागः स्वजीवनं राष्ट्रस्य समाजस्य च कल्याणाय समर्पितवान्। ग्रामोदय–शिक्षा–स्वावलम्बन–माध्यमेन तेन ग्राम्यभारते विकासस्य या परिवर्तनकारी धारा प्रवर्तिता, सा आत्मनिर्भरतायाः भावनां बलीकृतवती।
नानाजेः जीवनं तपः, त्यागः, समर्पणं च इति एकं गाथारूपं उदाहरणम् अस्ति, यत् आगामिनः पीढीः सदा राष्ट्रहितकर्मणि प्रेरयिष्यति।
---------------
हिन्दुस्थान समाचार