Enter your Email Address to subscribe to our newsletters
मण्डीनगरम्, 11 अक्टूबरमासः (हि.स.)। राष्ट्रीयसेवासंस्थानस्य अन्तर्गतं मण्डीजनपदस्य कोठीगैहरीनामके स्थले सप्तदिवसीयः विशेषशिविरः आयोजितः। यस्मिन् छात्राः पर्यावरणजागरूकतायाः प्रबोधनं कुर्वन्तः परितः परिवेशं प्लास्टिकमुक्तं कृतवन्तः, जलस्रोतांश्च संवर्धितवन्तः। प्रधानाचार्यः बालकृष्णयादवः अवदत् यत् अस्य विशेषशिविरस्य मुख्यः उद्देश्यः विद्यार्थीजनानां सर्वाङ्गीणविकासः तथा राष्ट्रसेवाभावस्य जागरणं च अस्ति। अस्मिन्नेव अवसरे स्वयंसेंवकाः विविधान् विषयविशेषज्ञैः प्रेरिताः अभवन्। तत्र अधिवक्ता राजेशभारद्वाजः न्यायपालिकायाः कार्यप्रणालीं विस्तरेण अवोचत्। अन्यसत्रे डा॰ ईशान्तठाकुरः मानवशरीरस्य रोगमुक्ततां, मनोरोगप्रतिकारमार्गं, प्राथमिकोपचारविधानानि च प्रकाशयामास। समाजसेवकौ आशुठाकुरः चन्द्रमणिठाकुरश्च समाजे विद्यार्थिनः भूमिकां व्याख्यातवन्तौ।
कार्यक्रमप्रभारी भगतचन्देलः अवदत् यत् अस्मिन् शिविरे अष्टचत्वारिंशत् (४८) स्वयंसेंवकाः भागं गृहीत्वा निश्चितकालानुसारं सर्वाः क्रियाः अनुष्ठितवन्तः। तत्र प्रभातफेरी, योगाभ्यासः, प्रार्थनासभा, पदयात्राभ्यासः, क्रीडाक्रिया, परियोजनाकार्यं, सांस्कृतिककार्यक्रमाः, सायं-आरती, दैनन्दिनपुस्तिकालेखनं च समाविष्टानि। सहप्रभारी आशादेवी अपि शिविरे महिला-प्रभारीरूपेण सहयोगं कृतवती। अस्य सप्तदिवसस्य एनएसएस-शिविरस्य समापनसमारोहे विद्यालयस्य प्रधानाचार्यः बालकृष्णयादवः, एसएमसीप्रधानरीनाचन्देलः, आशुठाकुरः, सहायकशिक्षकाः च उपस्थिताः आसन्।
प्रधानाचार्यः बालकृष्णयादवः एनएसएसस्वयंसेंवकान् प्रति संबोधित्य नानाप्रकारान् अनुभवांश्च संयुक्ततया प्रकाशितवान्। एनएसएसकार्यक्रमाधिकारी भगतचन्देलः अस्य सप्तदिनेयस्य विशेषशिविरस्य संक्षिप्तविवरणं दत्तवान्। समापनसंध्यायां एनएसएसस्वयंसेंवकैः नानाप्रकाराः मनोरञ्जकाः सांस्कृतिकप्रदर्शनानि कृतानि। ततः अनन्तरं विद्यालयप्रशासनद्वारा तेषां पुरस्कारवितरणं कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता