Enter your Email Address to subscribe to our newsletters
गांधीनगरम्, 11 अक्टूबरमासः (हि.स.)।अद्य भारतस्य राष्ट्रपतिः द्रौपदी मुर्मुर्गुजरातराज्यस्य द्वारकानगरे आगता। सा तत्र भगवानं द्वारकाधीशं प्रति भक्तिपूर्वकं शिरः नत्वा दर्शनं कृतवती।
राष्ट्रपतिः भगवानं द्वारकाधीशं प्रति देशस्य नागरिकाणां सुखशान्तिसमृद्ध्यर्थं हृदयेन प्रार्थनाम् अकरोत्।
सा भक्तिभावेन शास्त्रोक्तविधिना पादुकापूजनं कृत्वा परमां धन्यतां अनुभूतवती।
एतस्मिन् अवसरि द्वारकाधीशमन्दिरे पर्यटनमन्त्री मूलुभाई बेर, जिल्हापालः राजेशतन्ना, रेंज-आईजी अशोककुमारयादवः, पुलिसाधीक्षकः जयराजसिंहवाला, प्रान्ताधिकारी अमोलआवटे, प्रशासकः तथा उपजिल्हापालः हिमांशुचौहान इत्येते उपस्थिताः आसन्।
ते सर्वे राष्ट्रपतिं ऊपरणेन, द्वारकाधीशमन्दिरस्य प्रतिकृत्या, पुष्पैः, तुलसीनिरूपितया “अनुग्रहम्” इत्याख्यया अगरवत्त्या, सुवर्णपट्टिकायुक्तेन द्वारकाधीशस्वरूपेण च सम्मान्य, प्रसादं समर्प्य स्वागतवन्तः।
राष्ट्रपतिः सह पुत्र्या इतिश्रीमुर्मु इत्याख्यया अन्यैः च मान्यजनैः सह तत्र उपस्थितैरभूयत।
---------------
हिन्दुस्थान समाचार