Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 11 अक्टूबरमासः (हि.स.)।
केन्द्रीयकृषिः किसानकल्याणमन्त्री च श्रीशिवराजसिंहः अवदत् यत्, प्रधानमन्त्रिणा नरेन्द्रमोदिना “दलहन-आत्मनिर्भरता-मिशन” तथा “प्रधानमन्त्री-धन-धान्य-कृषियोजना” इत्येतयोः शुभारम्भः ऐतिहासिकः उपक्रमः अस्ति। पूसा-कैम्पसे आयोजिते समारोहेषु प्रधानमन्त्रिणा देशस्य कृषिक्षेत्रं सम्बद्धक्षेत्रं च बहुमूल्यैः उपहारैः समृद्धं कृतम्।
प्रधानमन्त्रि-धन-धान्य-कृषियोजना इति योजना देशस्य आकाङ्क्षाजिलेषु कृष्युत्थानाय ११ मन्त्रालयानां ३६ उपयोजनाः समन्वय्य आरब्धा अस्ति। “दलहन-आत्मनिर्भरता-मिशन” नाम योजना तु दालवर्गीय-उपभोगस्य वृद्धिं दृष्ट्वा देशं दालोत्पादनविषये आत्मनिर्भरं कर्तुम् उद्दिष्टा अस्ति।
शिवराजसिंहः शनिवासरे पूसा-कैम्पसे आयोजिते द्वयोः प्रमुखयोः कृषियोजनयोः शुभारम्भसमारोहस्य अवसरः प्रति भाषमाणः आसीत्। सः अवदत् — प्रधानमन्त्रिणा कृषिअवसंरचना-कोषः, पशुपालनम्, मत्स्यपालनम्, खाद्यप्रसंस्करणं च इत्येषां क्षेत्रेषु ११०० परियोजनानां उद्घाटनं शिलान्यासं च कृतम्। एतेषां परियोजनानां माध्यमेन देशे ४२,००० कोट्यधिकं निवेशं सम्पादितं, येन ग्राम्यभारतस्य कोल्डस्टोरेज्, प्रोसेसिंग्-यूनिट्, वेयरहाउस् इत्यादयः सुविधाः आधुनिकरूपेण स्थाप्यन्ते।
प्रधानमन्त्रिणा देशभरात् उत्कृष्टं योगदानं प्रदर्शितवन्तः कृषकाः, कृषक-उत्पादक-संघाः (एफपीओ), सहकारी-समितयः, तन्त्रज्ञान-नवोन्मेषशीलाः कृषकाः च सम्मानिताः। एतेषां उपलब्धयः सामाजिकं मान्यतारूपेण स्वीकारिताः।
कृषिमन्त्रिणा प्रधानमन्त्रिणं प्रति कृतज्ञता व्यक्ता। सः अवदत् — केन्द्रसरकारेण यूरियायाः मूल्यवृद्धेः भारः कृषकेषु न आरोपितः। एकः यूरिया-बोरी केवलं २६६ रुप्यकाणां मूल्ये लभ्यते, डीएपी तु १३५० रुप्यकाणां मूल्ये; उभयत्र सरकारः महतीं सब्सिडीं दत्तवती।
सः उक्तवान् यत्कृषियन्त्रेषु जीएसटी कमीक्रियते, येन कृषकाः सुलभं स्वस्तं च विकल्पं लभन्ते। प्रधानमन्त्रिणा न्यूनतम-समर्थन-मूल्ये (एमएसपी) अपि उल्लेखनीया वृद्धिः कृता —
गोधूमे १६० रुप्यकाः प्रति क्विण्टलम्, चणे २००, मसूरे ३००, सरषपे २५०, कुसुमे ६०० रुप्यकाः प्रति क्विण्टलम् इति।
प्रधानमन्त्रि-कृषक-सम्मान-निधेः अन्तर्गतं अद्यावधि ३.९० लक्ष-कोट्यधिकं रुप्यकाणि प्रत्यक्षं कृषकाणां खातेषु प्राप्तानि। कृषक-क्रेडिट्-कार्ड्-योजनया वर्षे २०२४–२५ मध्ये १० लक्ष-कोट्यधिकं ऋणं दत्तम्, १.६२ लक्ष-कोट्यधिकं ब्याज-रियायतिः अपि प्रदत्ता। फसलबीमायोजनया कृषकानां कृते १.८३ लक्ष-कोट्यधिकं रुप्यकाणां क्षतिपूर्तिः प्रदत्ता।
शिवराजसिंहः अवदत् — अद्य देशे ५२ लक्षाधिकाः कृषकाः एफपीओज् इत्येषां अंशधारिणः जाताः। ११०० एफपीओजः करोड़पतयः भूत्वा १५,००० कोट्यधिकं टर्नओवर् अर्जितवन्तः। एतेषां संस्थानां कृते कृषिमन्त्रालयेन निरन्तरं नवोन्मेषः ब्राण्डिंग्-समर्थनं च प्रदत्तम्।
---------------
हिन्दुस्थान समाचार