प्रतियोगी परीक्षा संबंधीपरिशीलनायोगो मुख्यमंत्रिणे धामिने समर्पितवान् अंतरिमप्रतिवेदनम्
देहरादूनम्, 11 अक्टूबरमासः (हि.स.)।स्पर्धापरीक्षासु जातानाम् आरोपितानाम् अनियमिततानां अन्वेषणार्थं गठितस्य एकसदस्यस्य अन्वेषणायोगस्य अध्यक्षः न्यायमूर्तिः (निवृत्तः) यू.सी. ध्यानी नामकः अद्य अत्र मुख्यमन्त्रिणे पुष्करसिंहधामी महोदयाय अन्तरिमप्रतिवे
गठित समिति के अध्यक्ष यूसी  ध्यानी  मुख्यमंत्री पुष्कर सिंह धामी को रिपोर्ट सौंपते।


देहरादूनम्, 11 अक्टूबरमासः (हि.स.)।स्पर्धापरीक्षासु जातानाम् आरोपितानाम् अनियमिततानां अन्वेषणार्थं गठितस्य एकसदस्यस्य अन्वेषणायोगस्य अध्यक्षः न्यायमूर्तिः (निवृत्तः) यू.सी. ध्यानी नामकः अद्य अत्र मुख्यमन्त्रिणे पुष्करसिंहधामी महोदयाय अन्तरिमप्रतिवेदनं समर्पितवान्। मुख्यमन्त्री अवदत्— सरकार परीक्षा–प्रणाल्याः शुचिता, पारदर्शिता, विश्वसनीयता च स्थापयितुं निष्ठां धारयति। सरकार प्रतिवेदनस्य परीक्षणं कृत्वा अभ्यर्थिनां हिताय निर्णयं करिष्यति।

उत्तराखण्डाधीनस्थसेवाचयनआयोगेन २०२५ तमे वर्षे सितम्बरमासस्य एकविंशतितमे दिने आयोजितायां स्पर्धापरीक्षायाम् आरोपितानाम् अनियमिततानां अन्वेषणाय राज्यसर्वकारेण आयोगः गठनं कृतः। मुख्यमन्त्री अवदत्— आयोगेन स्वल्पकालेन अधिकं जनश्रवणं कृत्वा अभ्यर्थिभ्यः सम्बद्धपक्षेभ्यश्च परामर्शान् ग्राह्य प्रतिवेदनं प्रस्तुतं कृतम्, यत् प्रशंसनीयं कार्यं भवति।

तेन अपि उक्तं यत् अस्य प्रकरणस्य केन्द्रीयअन्वेषणसंस्थानस्य (CBI) अन्वेषणाय अनुशंसा कृता अस्ति, येन सर्वथा निष्पक्षता सुनिश्चितुं शक्येत। मुख्यमन्त्री अवदत्— भविष्येऽपि सुनिश्चितं भविष्यति यत् कस्यापि नियुक्तिपरीक्षायाम् अनियमिततानां सम्भावना न भवेत्, अभ्यर्थिनां तेषां पालकानां च विश्वासः राज्यस्य परीक्षा–प्रणाल्यां दृढः तिष्ठेत्।

हिन्दुस्थान समाचार