उपराष्ट्रपतिः राधाकृष्णनः अद्य सितारदियाबाप्रदेशं गमिष्यति, लोकनायकस्य जयप्रकाश-नारायणस्य जयंत्यां श्रद्धांजलिं समर्पयिष्यति
नवदेहली, 11 अक्टूबरमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णनः अद्य एकदिवसीय-भ्रमणेन बिहारराज्यं गमिष्यति। ते बिहारराज्यस्य सारणजनपदे स्थिते भारतरत्न-लोकनायक-जयप्रकाश-नारायणस्य (जेपी बाबोः) पैतृके ग्रामे सिताब-दियारायाम् श्रद्धांजलिम् अर्पयिष्यत
da92bb7b4a76c358fd4bad58a6a0422d_219004291.jpg


नवदेहली, 11 अक्टूबरमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णनः अद्य एकदिवसीय-भ्रमणेन बिहारराज्यं गमिष्यति। ते बिहारराज्यस्य सारणजनपदे स्थिते भारतरत्न-लोकनायक-जयप्रकाश-नारायणस्य (जेपी बाबोः) पैतृके ग्रामे सिताब-दियारायाम् श्रद्धांजलिम् अर्पयिष्यति।

उपराष्ट्रपति-सचिवालयेन गुरुवासरे प्रदत्त-वक्तव्ये अनुसारं राधाकृष्णनः सिताब-दियारायां लोकनायकस्य पैतृक-निवासं गत्वा तं नमस्यन्ति। तदनन्तरं जयप्रकाश-नारायण-राष्ट्रीय-स्मारके पुष्पांजलिम् अपि अर्पयिष्यति। ते सिताब-दियारायां स्थितस्य प्रभावती-पुस्तकालयस्य अपि अवलोकनं करिष्यन्ति। एषः पुस्तकालयः लोकनायकस्य भार्यायाः प्रभावती-देव्याः स्मृत्यर्थं संस्थापितः अस्ति।

सिताब-दियारा देशस्य एकं प्रमुखम् ऐतिहासिकं ग्रामम् अस्ति। एषः ग्रामः बिहारराज्यस्य सारणजनपदस्य च उत्तरप्रदेशस्य बलियाजनपदस्य च सीमायाम् अवस्थितः अस्ति, यत्र घाघरा-गङ्गयोः नद्योः संगमः भवति। संपूर्ण-क्रान्तेः प्रणेता जयप्रकाशनारायणस्य जन्मभूमिरूपेण सिताबदियारायाः विशेषं मानं प्राप्तम् अस्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता