Enter your Email Address to subscribe to our newsletters
जयपुरम्, 11 अक्टूबरमासः (हि.स.)। देशस्य आपराधिकन्यायव्यवस्थायाम् अभूतपूर्वपरिवर्तनं जनयन्त्याः त्रयाणां नवीनानाम् आपराधिकसंहितानाम् एकजुलाई २०२४ तः आरभ्य प्रवृत्तेः एकवर्षपर्यन्तं सम्पन्ने सति, “दण्डस्य स्थाने न्यायस्य” इति अवधारणां प्रदर्शयन्त्याः प्रदर्शिन्याः आयोजनं जयपुर-प्रदर्शन-परिषद्-केन्द्रे, सीतापुरायां १३ तः १८ अक्टूबरपर्यन्तं क्रियते।
अस्याः प्रदर्शिन्याः उद्घाटनं सोमवासरे १३ अक्टूबरदिनाङ्के केन्द्रीयगृह-सहकारितामन्त्री अमितशाहेन भविष्यति। अस्मिन्नेव अवसरॆ मुख्यमन्त्री भजनलालशर्मा, राजस्थान-उच्चन्यायालयस्य कार्यवाहकमुख्यन्यायाधीशः संजीवप्रकाशशर्मा च सह अनेकाः मान्याः अतिथयः उपस्थिताः भविष्यन्ति।
प्रदर्शिन्याः प्रमुखोऽभिप्रायः सामान्यजनान् सर्वांश्च हितधारकान् एतेषां नूतनानां विधीनां — भारतीयन्यायसंहिता २०२३, भारतीयनागरिकसुरक्षासंहिता २०२३, भारतीयसाक्ष्याधिनियमः २०२३ — महत्त्वम् उपयोगित्वं च ज्ञापयितुम् अस्ति।
प्रदर्शिन्यां येषु सकारात्मकपरिवर्तनासु विशेषः ध्यानं दास्यते, तेषु “दण्डस्य स्थाने न्यायस्य सुनिश्चितिः” इति भावनां सरलरूपेण प्रस्तोतुं, आपराधिकन्यायव्यवस्थां पारदर्शिनीं सुगमां च कर्तुं प्रौद्योगिकी-विधिविज्ञानयोः प्रयोगं च चित्रमुद्रिकारूपेण, जीवदर्शनैः लघुचित्रैश्च प्रदर्शयितुं, समयबद्धया सरलया च प्रक्रियया त्वरितन्यायस्य स्थापने जातान् सकारात्मकपरिवर्तनान् प्रकाशयितुं च सम्मिलितम् अस्ति।
एषा प्रदर्शिनी विशेषतः विद्यार्थिनां, नारीणां, अधिवक्तॄणां, न्यायिकाधिकाऱिणां, नागरिकसंस्थानां च कृते अत्यन्तोपयोगिनी भवति। विविधप्रस्तुतिभिः जनोपयोगिप्रावधानानि सरलरूपेण प्रसारितुं एषः एकः महान् प्रयत्नः अस्ति। प्रदर्शिन्यां सामान्यजनानां छात्राणां च बहुसंख्यकः सहभागः अपेक्षितः अस्ति।
एषः प्रायसः (प्रयत्नः) आरक्षक, अभियोजनम्, न्यायपालिका, कारागारं, फॉरेन्सिक् विभागं च इत्येतासां आपराधिकन्यायव्यवस्थायाः सर्वेषां स्तम्भानां मध्ये जातान् सकारात्मकपरिवर्तनान् सार्वजनिकरूपेण प्रदर्शयिष्यति। एषा प्रदर्शिनी देशस्य विधिव्यवस्थायां प्राप्तान् महान् परिवर्तने ज्ञातुं स्वर्णसदृशः अवसरः इति विज्ञायते।
प्रदर्शिन्याः शुभारम्भात् पूर्वं अद्य शनिवासरे ११ अक्टूबरदिनाङ्के आरक्षक-मुख्यालये प्रारम्भिक-कार्यक्रमः आयोजितः भविष्यति। अस्मिन्नेव अवसरॆ प्रदर्शिन्याः रूपरेखा, उद्देश्यः, मुख्याकर्षणानि, जनसहभागितायाः योजना च माध्यमप्रतिनिधिभ्यः अवगताः करिष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता