Enter your Email Address to subscribe to our newsletters
मुख्यमन्त्रिणा डॉ. यादवेन अन्ताराष्ट्रियबालिकादिवसे प्रदेशवासिनः अयच्छत् शुभकामनाः
भाेपाल, 11 अक्टूबरमासः (हि.स.)।अद्य शनिवासरे अन्ताराष्ट्रियबालिकादिवसः आचर्यते। प्रत्येकवर्षं ११ अक्टूबरतिथौ विश्वस्य सर्वत्र अन्ताराष्ट्रियबालिकादिवसः उत्सवेन निर्दिश्यते। एषः दिवसः कन्यानां अधिकाराय, शिक्षायै, समानसंध्यायै, सशक्तिकरणाय च समर्पितः अस्ति।
वर्षे २०११ तमे संयुक्तराष्ट्रमहासभया अयं दिवसः नियोजितः आसीत्,
येन समाजे कन्यानां प्रति सकारात्मकविचारः, समानताच भावना च प्रवर्धेत।
मुख्यमन्त्री डा. मोहनयादवः अन्ताराष्ट्रियबालिकादिवसे प्रदेशवासिनः शुभकामनाः दत्तवान्।
मुख्यमन्त्रिणा डा. यादवेन सोशल-मीडिया “एक्स” इत्यस्मिन् माध्यमे लिखितं यत्
“अन्ताराष्ट्रियबालिकादिवसे सर्वेभ्यः प्रदेशवासिभ्यः हृदयपूर्वकं अभिनन्दनं शुभाशंसाः च।
वयं प्रत्येकपदे प्रदेशस्य कन्याभिः सह स्थिताः स्मः। कन्याः पठन्तु, अग्रे गच्छन्तु, स्वप्नानां साकारार्थं नित्यम् नूतनं विहायसं गच्छन्तु।
एवं ते राष्ट्रविकासे स्वस्य सशक्तां भूमिकां निर्वर्तयितुं शक्नुवन्ति —
एवमेव मम अभिलाषा अस्ति।
कन्यानां संकल्पानां सिद्ध्यर्थं वयं काचिदपि कमी न करिष्यामः।”
---------------
हिन्दुस्थान समाचार